Table of Contents

<<7-2-19 —- 7-2-21>>

7-2-20 दृढः स्थूलबलयोः

प्रथमावृत्तिः

TBD.

काशिका

दृढ इति निपात्यते स्थूले बलवति चार्थे। दृढः स्थूलः। दृढो बलवान्। किम् अत्र निपात्यते? दृंहेः क्तप्रत्यये इडभावः, हकारनकारयोः लोपः, परस्य ढत्वम्। अथ दृहिः प्रकृत्यनतरम् अस्ति? तत्र अप्येतदेव सर्वं नलोपवर्जम्, नकारस्य अभावात्। हलोपनिपातनं पूर्वत्र असिद्धत्वनिवृत्त्यर्थम्। ढलोपे हि सति तस्य पूर्वत्र असिद्धत्वात् द्रढिमा, द्रढीयान्, द्रढयति इत्यत्र र ऋतो हलादेर्लघोः 6-2-161 इति रेफो न स्यात्, इह च परिद्रढ्य्य गत इति ल्यपि लघुपूर्वात् 6-4-56 इति णेरयादेशो न स्यात्, इह च परिदृढस्यापत्यं पारिदृढी कन्या इति गुरूपोत्तमलक्षणः ष्यङ् च प्रसज्येत। स्थूलबलयोः इति किम्? दृंहितम्। दृहितम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

828 स्थूले बलवति च निपात्यते..

बालमनोरमा

867 दृढः स्थूलबलयोः। बलशब्द अर्शाअद्यजन्तो बलवत्परः। तदाह – बलवति चेति। तस्येति। निष्ठातकारस्य ढत्वं निपात्यते इत्यर्थः। हस्य लोप इति। `निपात्यते' इति शेषः। इदित इति। अनिदितस्तु नलोपः सिद्ध एवेति भावः। ननु हस्य ढत्वे कृते `झषस्तथोर्धोऽधः' इति तकारस्य ध्तवे तस्य ष्टुत्वेन `ढो ढे' इति ढलोपे दृढ इति सिद्धम्, ततश्च इडभाव एव नपात्यतां , न तु हकारलोपो ढत्वं चेति चेत्। मैवम्। तथाहि सति द्रढीयानित्यादौ ढलोपस्याऽसिद्धत्वेन ऋकारस्य संयोगपरकत्वम्, अस्य हलोपस्य साप्तमिकत्वेन असिद्धत्वाऽभावादिति भाष्ये स्पष्टम्।

तत्त्वबोधिनी

712 दृढः स्थूल। बलमस्यास्तीति बलः। `अर्श आदिभ्योऽच्। तदाह– बलवतीति। स्थूलो = मांसलः, स च निर्बलोऽपि बलवांस्तु कृशोऽपि दृढ इति फलितोऽर्थः। तस्येति। तकारस्येत्यर्थः। हस्येति। ननु `हो ढः' इति ढत्वे ढो ढे लोपेनैव सिद्धमिति तस्य ढत्वं, हस्य लोपश्च न निपात्यतामिति चेन्मैवम्। तथाहि सति ढलोपस्याऽसिद्धत्वेन द्रढञिमेत्यत्र `र ऋतो हलादेर्लघो'रिति रभावो न स्यात्, `परिद्रढय्य गत' इत्यत्र `ल्यपि लघुपूर्वा'दित्ययादेशो न स्यात्, परिदृढस्यापत्यं पारिदृढञी कन्येत्यत्र गुरूपोत्तमलक्षणः ष्यङ् स्यात्। अतोऽसिद्धत्वनिवृत्तये हलोपो निपात्यत इति भाष्यादौ स्थितम्। अत एव `ढ्रलोपे' इति सूत्रे `अणः किं दृढ' इति प्राचो ग्रन्थस्य प्रामादिकतामभिप्रेत्य तृढो वृढ इति प्रत्युदाह्मतम्।

Satishji's सूत्र-सूचिः

Video

वृत्तिः स्‍थूले बलवति च निपात्‍यते । The प्रातिपदिकम् ‘दृढ’ is given as a ready-made form (derived by adding the निष्ठा affix ‘क्त’ to the verbal root √दृह् (दृहँ वृद्धौ १. ८३४) or √दृन्ह् (दृहिँ वृद्धौ १. ८३५)) in the sense of ‘stout’ or ‘strong.’

क्तस्येडभाव:। तस्य ढत्वम्। हस्य लोप:। इदितो नलोपश्च। (from सिद्धान्तकौमुदी) The following four operations are implies in the form ‘दृढ’ -
(i) Absence of the augment ‘इट्’ (which would have been done by 7-2-35) for the affix ‘क्त’
(ii) A substitution of a ढकार: in place of the तकार: of the affix ‘क्त’
(iii) An elision of the हकार: of √दृह्/√दृन्ह् /> (iv) In case of √दृन्ह् – an elision of the नकार: (prescribed by 7-1-58) of the verbal root.