Table of Contents

<<7-2-18 —- 7-2-20>>

7-2-19 धृषी शसी वैयात्ये

प्रथमावृत्तिः

TBD.

काशिका

वियातस्य भावो वैयात्यम् प्रागल्भ्यम्, अविनीतता। तत्र धृष शस इत्येतयोः निष्ठायाम् इडागमो न भवति। धृष्टो ऽयम्। विशस्तो ऽयम्। धृषेः आदितश्च 7-2-16 इति प्रतिषेधः सिद्ध एव, शसेरपि उदितो वा 7-2-56), यस्य विभाषा (*7,2.15 इति? नियमार्थं वचनम्, धृषिशस्योः वैयात्ये एव इड् न भवति। भावादिकर्मणोरपि वैयात्ये धृषिर्नास्ति। धृष्टः। विशस्तः। वैयात्ये इति किम्? धर्षितः। विशसितः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

866 धृषिशसी। वियातः = अविनीतः, तस्य भावो वैयात्यम्। तत्र `ञि धृषा प्रागल्भ्ये' इत्यस्य आदित्तवादेवेण्निषेधः सिद्धः, `शसु हिंसाया'मित्यस्य तु `उदितो वे'ति क्त्वायां वेट्कत्वात् `यस्य विभाषे'तीण्निषेधः सिद्धः, अतो नियमार्थमित्याह- - अविनय एवेति। धृष्टो विशस्त इति। अविनीत इत्यर्थः। अन्यत्रेति। वैयात्याऽभावे इत्यर्थः। धर्षित इति। बालात्कृत इत्यर्थः। विससित इति। हिंसित इत्यर्थः। अत्र वैयात्याऽभावादिण्निषेधो नेति भावः। ननु धृषेरादित्त्वात् `विभाषा भावादिकर्मणो'रिति भावे आदिकर्मणि च इड्विकल्पे प्राप्ते तदंशे नित्यार्थोऽत्र विधिरस्तु, ततश्च भावादिकर्मभ्यामन्यत्र वैयात्याऽभावेऽपि `आदितश्चे'तीण्निषेद एव स्यादित्यत आह– भावादिकर्मणोस्त्विति। नास्तीति। अनभिधानादिति भावः। तत्र वृद्धसंमतिमाह– अत एवेति। भावकर्मणोर्धृषेरनभिधानादेवेत्यर्थः। अन्यथा धृषेरादित्त्वात् `विभाषा भावादिकर्मणो'रिति भावे आदिकर्मणि च इड्विकल्पे प्राप्ते तदंशे नित्यार्थतया विधानार्थत्वापत्तेरिति भावः। चिन्त्यमिति। धृषेरादित्त्वं हि नवैयात्ये आदित्त्वलक्षणेण्निषेधार्थं , `धृषिशसी वैयात्ये' इत्येव सिद्धेः, नापि वैयात्यादन्यत्र आदित्त्वलक्षणेण्निषेधार्थम्, धृषेर्वैयात्य एव इष्निषेधनियमेन ततोऽन्यत्र आदित्त्वलक्षणनिषेधाऽभावात्। नापि धृषेर्वैयात्ये भावादिकर्मणोर्विषये `विभाषा भावादिकर्मणो'रिति इड्विकल्पार्थं, भावादिकर्णोर्वैयात्ये धृषेरनभिधानात्। तस्माद्धृषेरादित्त्वं व्यर्थमिति हरदत्त आहेत्यर्थः। माध्वस्त्विति। अवैयात्ये भावादिकर्मणोरनभिधाने प्रमाणाऽभावादिति भावः। तत्र अवैयात्ये भावे उदाहरति- - धृष्टं धर्षितमिति। आदिकर्मण्युदाहरति– प्रधृष्टओः प्रधर्षित इति।

तत्त्वबोधिनी

711 धृषिशसी। ञिधृषा प्रागल्भे। शसु हिंसायाम्। अनयोः `आदितश्च' `यस्य विभाषे'ति सूत्राभ्यामिट्प्रतिषेधे सिद्धेऽप्यनयोर्वैयात्य एवाऽनिट्त्वं नान्यत्रेति नियमार्थमित्याह— अविनये एवेति। विरुद्धं यातो वियातः = अविनीतः, तस्य भावो वैयात्यम्। ननु धृषेः `विभाषा भावादिकर्मणो'रिति विकल्पे प्राप्ते नित्यार्थं कस्मान्न भवतीत्याशङ्कायामाह– नास्तीति। अनभिधानादिति भावः। अत्र प्रमाणमाह– अत एवेति। माधवस्त्विति। एवं च आदित्त्वस्य फलवत्तवाद्धरदत्तोक्तं यच्चिन्त्यं तदेव चिन्त्यमिति भावः।

Satishji's सूत्र-सूचिः

TBD.