मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु
TBD.
क्षुब्ध स्वान्त ध्वान्त लगन् म्लिष्ट विरिब्ध फाण्ट बाढ इत्येते निपात्यन्ते यथासङ्ख्यं मन्थ मनः तमः सक्त अविस्पष्ट स्वरः अनायास भृश इत्येतेष्वर्थेषु। क्षुब्ध इति भवति मन्थाभिधानं चेत्। क्षुब्धो मन्थः। क्षुभितम् अन्यत्। क्षुभितं मन्थेन। क्षुब्धा गिरिनदी इत्येवम् आद्युपमानात् भविष्यति। स्वान्तम् इति मनो ऽभिधानं चेत्। स्वनितम् अन्यत। स्वनितो मृदङ्गः। स्वनितं मनसा। ध्वान्तम् इति भवति तमो ऽभिधानं चेत्। ध्वनितम् अन्यत्। ध्वनितो मृदङ्गः। ध्वनितं तमसा। लग्नम् इति भवति सक्तं चेत्। लगितमन्यत्। म्लिष्टम् इति भवति अविस्पष्टं चेत्। म्लेच्छितम् अन्यत्। इत्वम् अप्येकारस्य निपातनादेव विरिब्धम् इति स्वरश्चेत्। विरेभितम् अन्यत्। रेभृ शब्दे इत्यस्य एतन् निपातनम्। अन्ये तु विरिभितम् अन्यतिति पठन्ति। रभिं सौत्रं धातुं पठन्ति, ते विरिभितम् इति प्रत्युदाहरन्ति। फाण्टम् इति भवति अनायासश्चेत्। फाणितम् अन्यत्। यदशृतमपिष्टं च कषायमुदकसम्पर्कमात्रात् विभक्तरसमीषदुष्णं तत् फाण्टम्। तदल्पप्रयत्नसाध्यत्वादनायासेन लक्ष्यते। बाढम् इति भवति भृशं चेत्। बाहितम् अन्यत्। बाहृ प्रयत्ने इत्यस्य धातोरेतन् निपातनम्। अतिशयश्च भृशम् इह उच्यते।
TBD.
–
865 क्षुब्धस्वान्त। क्षुब्ध, स्वान्त, ध्वान्त, लग्न, म्लिष्ट, विरिब्ध, फाण्ट, बाढ एषामष्टानां द्वन्द्वात्प्रथमाबहुवचनम्। मन्थ, मनः, तमः, सक्त, अविस्पष्ट, स्वर, अनायास, भृश एषामष्टानां द्वन्द्वात्सप्तमी। यथासङ्ख्यमन्वयः। समुदायेनेति। मन्थादिष्वेते रूढाः। अवयवार्थाऽभिनिवेशो न कर्तव्य इत्याह- द्रव्यद्रव्येति। अत्र याज्ञिकप्रसिद्धिरेव शरणीकर्तव्या। मन्थनदण्डश्चेति। `वैशाखमन्थमन्थानमन्थानोमन्थदण्डके' इत्यमरः। क्षुब्ध इति। `क्षुभ संचलने' अस्मात् क्तः, इडभावो निपात्यते। `झषस्तथो'रिति धः , जश्त्वम्। स्वान्तमिति। स्वनधातोः क्तः, `अनुनासिकस्य क्वी'ति दीर्घः। निपातनान्नेट्। `स्वान्तं ह्मन्मानसं मनः' इत्यमरः। ध्वान्तं तम इति ध्वनेः क्तः। `अनुनासिकस्य क्वी'ति दीर्घः। `अन्धकारोऽस्त्रियां ध्वान्तं तमिरुआं तिमिरं तमः' इत्यमरः। लग्नं सक्तमिति। संबद्धमित्यर्थः। लगेः क्तः, इडभावः। ततर् रदाभ्यां परतवाऽभावात्कतं निष्ठानत्वमित्यत आह– निपातनादिति। म्लिष्टमविस्पष्टमिति। इडभावे `व्रश्चे'त षः। तकारस्य ष्टुत्वेन टः। `अथ म्लिष्टमविस्पष्ट'मित्यमरः। विरब्धः स्वर इति। स्वरविशेष इत्यर्थः। `रेभृ शब्दे' अस्मात् क्तः, इडभावे `झषस्तथोर्धोऽध' इति धः। उभयत्र धातुस्वरूपं प्रदर्शयन्नाह– म्लेछ रेभृ अनयोरिति। इत्त्वमपीति। इडभावश्चेत्यर्थः। फाण्टमिति। फणेः क्तः, इडभावः, निष्ठातस्य टत्वं च निपात्यते। तस्याऽसिद्धत्वात् `अनुनासिकस्ये'ति दीर्घः। `अनायासकृतं फाण्ट'मित्यमरः। वृत्तिकृन्मतमाह–कषायविशेष इति।`यदशृतमपिष्टं च कषायमुदकसंसर्गमात्राद्विभक्तरसमीपषदुष्णं तत्फाम्टमित्युच्यते' इति वृत्तौ स्थितम्। वेदभाष्ये आहेति। `तद्वै नवनीतं भवति। घृतं वै देवानां फाण्टं मननुष्याणा'मिति शतपथब्राआहृणव्याख्यावसरे आहेत्यर्थः। बाढं भृशमिति। `बाह्म प्रयत्ने' अस्मात् क्तः, इडभावः, ढत्वधत्वष्टुत्वढलोपाः। अन्यत्र त्विति। मन्थादेर्वाच्यत्वाऽभाव इत्यर्थः।
710 क्षुब्ध। क्षुभ संचलने `झषस्तथो'रिति धत्वम्। स्वन ध्वन शब्दे। इडभावे `अनुनासिकस्य क्विझलो' रिति दीर्घः। लगे सङ्गे, म्लेच्छ अव्यक्ते शब्दे, `व्रश्चे' ति षत्वे ष्टुत्वम्?। रेभृ शब्दे, फण गतौ। दीर्घः, ष्टुत्वम्। बाह्म प्रयत्ने। इडभावे ठत्वधत्वष्टुत्वढलोपाः। अनयासशब्देन तत्साध्यो लक्ष्यत इत्याह—- अनायाससाध्य इति। `क्षुण्णमौषधजातमुष्णोदके प्रक्षिप्य सद्योऽभिषुत्य पूत्वा यत्पीयते तत्फाण्टमित्याहुः। वेदभाष्ये इति। `तद्वै नवनीतं भवति। घृतं देवानां फाण्टं मनुष्याणा'मिति शतपथश्रुतेर्वयाख्यायामित्यर्थः। अन्यत्र त्विति। मन्थादेरवाच्यत्वे त्वित्यर्थः।
TBD.