Table of Contents

<<7-2-12 —- 7-2-14>>

7-2-13 कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि

प्रथमावृत्तिः

TBD.

काशिका

कृ सृ भृ वृ स्तु द्रु स्रु श्रु इत्येतेषां लिटि प्रत्यये इडागमो न भवति। कृ चकृव, चकृम। सृ ससृव, ससृम। भृ बभृव, बभृम। वृञ् ववृव, ववृम। वृङ् ववृवहे, ववृमहे। स्तु तुष्टुव, तुष्टुम। द्रु दुद्रुव, दुद्रुम। स्रु सुस्रुव, सुस्रुम। श्रु शुश्रुव, शुश्रुम। सिद्धे सत्यारम्भो नियमर्थः , क्रादय एव लिटि अनिटः, ततो ऽन्ये सेटः इति। बिभिदिव, बिभिदिम। लुलुविव, लुलुविम। अनुदात्तोपदेशानाम् अत्र प्रकृत्याश्रयः प्रतिषेधः, वृञ्वृङोस्तु प्र्त्ययाश्रयः, तदुभयस्य अप्ययं नियमः। वृञो हि थलि ववर्थ इति निपातनाद् व्यवस्था। स्तुद्रुस्रुश्रुवां तु ऋतो भारद्वाजस्य 7-2-63 इत्यस्मादपि नियमात् य इट् प्राप्नोति सो ऽपि नेष्यते। तुष्टोथ। दुद्रोथ सुस्रोथ। शुश्रोथ। कृञो ऽसुट्कस्य इति वक्तव्यम्। ससुट्कस्य इडगमो यथा स्यात्। सञ्चस्करिव, सञ्चस्करिम। ऋतो भारद्वाजस्य 7-2-63 इत्येतदप्यसुट्कस्य एव इष्यते, सञ्चस्करिथ।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

481 क्रादिभ्य एव लिट इण्न स्यादन्यस्मादनिटोऽपि स्यात्..

बालमनोरमा

136 कृसृ। कृ सृ भृ वृ स्तु द्रु रुआउ श्रु इत्यष्टानां समाहारद्वन्द्वात्पञ्चमी। लिटीति षष्ठ\उfffद्र्थे सप्तमी। `नेड्वशि कृती' त्यतो नेति इडिति चानुवर्तते। तदाह–एभ्य इति। ननु `एकाच उपेदशेऽनुदात्ता'दिति, `श्र्युकः किति' इति च सिद्धे किमर्थमिदं सूत्रमित्यत आह—क्रादीनामिति. कृ सृ भृ वृ इत्येतेषामित्यर्थः। नियमस्वरूपमाह— प्रकृत्याश्रय इत्यादि। कृ सृ भृ इत्येषां त्रयाणामनुदात्तोपदेशान्तर्भूतानामेकाच उपदेश इति यः प्रकृत्याश्रयो निषेधः, यश्च वृधातोः `श्र्युकः किती'ति पत्र्ययाश्रयो निषेधः, तदुभयमपि यदि लिटि स्यात्तर्हि कृसृभृवृ इत्येभ्य एव परस्य लिटो भवति, नतु तदन्येभ्यः परस्येत्यर्थः। तेन बिभिदिव बिभिदिमेत्यादौ `एकाच उपदेशे' इति निषेधः, बभूविव बभूविमेत्यादौ `श्र्युकः किती'ति निषेधश्च न भवति। अथ स्तुद्रुरुआउश्रुवां ग्रहणस्य प्रयोजनमाह—- तत इति। `अन्येषा'मिति शेषः। चतुर्णामिति। `ग्रहम'मिति शेषः। ततः = तेभ्यः कृसृभृवृ इत्येभ्यः– अन्येषां स्तुद्रुरुआउश्रुवां ग्रहणं थलि तुष्टोथ दुद्रोथ सुरुआओथ शुश्रोथ इत्यत्र `ऋतो भारद्वाजस्ये'ति वक्ष्यमामेन `ऋदन्तस्यैव थलि नेट् अन्यस्य तु स्यादेवे'ति नियमेन प्र#आप्तस्य इटो निषेधार्थम्, तथा तुष्टुव तुष्टुमेत्यादौ `कृसृभृवृ' इत्युक्तेन `क्रादिभ्य एव परस्य लिट इण्निषेधः, अन्येभ्यस्तु परस्य इट् स्यादेवे'ति नियमेन प्राप्तस्य इटो निषेदार्थं चेत्यर्थः। तदेवमजेस्थलि वीभावे `एकाचः' इति निषेधाऽभावादिडागमो निर्बाध इति स्थितम्।

तत्त्वबोधिनी

111 कृसृभृ। `डुकृञ् करणे'। `कृञ् हिंसायाम्'। इह निरनुबन्धग्रहणादेकानुबन्धद्वयनुबन्धयोरुभयोग्र्रहणम्। एवमग्रेऽपि `भृञ् भरणे' `डुभृञ् धारणपोषणयो'रित्युभयोग्र्रहमम्। `सृ गतौ'। `वृङ् संभक्तौट। `वृञ् वरणे'। इह निरनुबन्धकग्रहणाद्भिन्नानुबन्धयोरप्युभयोग्र्रहणम्। कृ सृ भृ एषामनुदात्तत्वात् `एकाच उपदेश' इति प्रकृत्याश्रये निषेधे प्राप्ते, वृङ्वृञोस्तूदात्तत्वात् `श्र्युकः किती'ति प्रत्ययाश्रये निषेधे प्राप्ते नियमोऽयमित्याह– क्रादीनां चतुर्णामिति। इह स्तुद्व्रादीनां चतुर्णां ग्रहणस्य भारद्वाजनियमप्रापितेण्निषेधोऽपि प्रयोजनमिति बोधयितुमष्टानां ग्रहणमिति नोक्तम्। इण्निषेध इति। `नेड्वशी'ति प्रक्रमान्नञा प्रापितस्यैवाऽभावस्य नियमो न तु विभाषाबलभ्यस्यापि। `अनन्तरस्ये'ति न्यायादपि संनिहितस्यैव नियम उचितः। तेन- - सिषेधिथ। सिषेद्ध। सिषिधिव। सिषिध्व इत्याद्युभयं भवति। नान्येभ्य इति।तेन पेचिव, बभूविवेत्यादि सिद्धम्। नचैवं क्रादिनियमेनैव `नेड्वशि कृती'ति निषेधस्याप्यप्रवृत्तौ सेदिवान् जक्षिवानित्यादि सिध्यत्येवेति `वस्वेकाजाद्धसा'मितीड्विधानं किमर्थमिति शङ्क्यं, तस्य नियमार्थत्वेन व्याख्यास्यमानत्वात्। अन्यथा बभूवानित्यत्रापीडागमः स्यादिति। नन्विह `क्रादिभ्यश्चेदिण्न स्यात्तर्हि लिट\उfffदेवे'ति विपरीतनियमः किं न स्यात्। तथा च कर्ता अकार्षीदित्यादाविडागमः स्यादिति चेत्। मैवम्। `कृते ग्रन्थे', `तमधीष्टो भृतः', परिवृतो रथः' इत्यादिनिर्देशविरोधापत्तेः। वमादिष्विति। आदिशब्#एदन सेध्वेवहिमहीनां ग्रहणम्। तुष्टुध्वे। तुष्टुवहे। तुष्टुमहे इत्यादि। स्यादेतत्- - अस्तु प्रकृत्याश्रयनिषेधस्य नियमः, प्रत्ययाश्रयस्य तु न संभवति, वृग्रहमस्य ववर्थेत्यत्राऽप्राप्तनिषेधप्रापकत्वात्। न ह्रत्र प्रत्ययाश्रयो निषेधः प्राप्नोति, थलोऽकित्त्वात्। नापि प्रकृत्याश्रयः , वृञ उदात्तत्वात्। न चैवम्पि वृङो नियमार्थत्वमस्त्विति वाच्यं, तस्य विशिष्याऽग्रहणात्। यद्यपि विशिष्य ग्रहणे वृञोऽपि नास्ति, तथाप्यप्राप्तनिषेधप्राप्तिफलकत्वाद्वृ इति वृञ एव ग्रहणं भवेत्। विदिनियमयोर्विधिरेव ज्यायानिति न्यायात्। एवं च बभूविवेत्यादौ `श्र्युकः किती'ण्निषेधो दुर्वार इति चेत्। अत्राहुः– `बभूथाततन्थजगृजगृम्भववर्थेति निगमे' इति सूत्रेण छन्दसि ववर्थेति निपातनाद्भाषायां वृञस्थल इटः स्वीकर्तव्यतया वृग्रहणस्य थल्विषयत्वाऽयोगात्, वमादीनां च कित्त्वन नियमस्य सुस्थत्वादिति।

Satishji's सूत्र-सूचिः

वृत्तिः क्रादिभ्य एव लिट इण्न स्यादन्यस्मादनिटोऽपि स्यात्। A लिँट् affix shall be prohibited from taking the augment “इट्” (by 7-2-35) only when preceded by one of the following verbal roots: √कृ (डुकृञ् करणे ८. १०, कृञ् हिंसायाम् ५. ७), √सृ (सृ गतौ १. १०८५), √भृ (भृञ् भरणे १. १०४५, डुभृञ् धारणपोषणयोः ३. ६), √वृ (वृञ् वरणे ५. ८, वृङ् सम्भक्तौ ९. ४५), √स्तु (ष्टुञ् स्तुतौ २. ३८), √द्रु (द्रु गतौ १. १०९५), √स्रु (स्रु गतौ १. १०९०) and √श्रु (श्रु श्रवणे १. १०९२).

Example continued from 7-2-8

जगम् + वस् As per 7-2-13 the affix ‘वस्’ would take the augment ‘इट्’ here, but the सूत्रम् 7-2-67 blocks the operation.

Example continued under 7-2-67


उदाहरणम् – बुबुधिषे (बुधँ अवगमने ४. ६८, लिँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्)।

बुध् + लिँट् 3-2-115
= बुध् + ल् 1-3-2, 1-3-3, 1-3-9
= बुध् + थास् 3-4-78, 1-3-12, 1-4-100, 1-4-101, 1-4-102, 1-4-105. As per 1-2-5, “थास्” becomes a कित्-प्रत्यय:।
= बुध् + से 3-4-80
= बुध् + इसे 7-2-35, 7-2-13. Note: In the absence of 7-2-13, the “इड्”-आगम: would have been blocked by 7-2-10.
= बुध् बुध् + इसे 6-1-8
= बु बुध् + इसे 7-4-60. 1-1-5 stops 7-3-86.
= बुबुधिषे। 8-3-59

गीतासु उदाहरणम् – अनुशुश्रुम (श्रु श्रवणे १. १०९२, लिँट्, कर्तरि प्रयोगः, उत्तम-पुरुषः, बहुवचनम्)।
नरके नियतं वासो भवतीत्यनुशुश्रुम || 1-44||

श्रु + लिँट् 3-2-115
= श्रु + ल् 1-3-2, 1-3-3, 1-3-9
= श्रु + मस् 3-4-78, 1-4-101, 1-4-102, 1-4-107. As per 1-2-5, “मस्” becomes a कित्-प्रत्यय:।
= श्रु + म 3-4-82. Note: 7-2-13 stops 7-2-35 and 1-1-5 stops 7-3-84.
= श्रु श्रु + म 6-1-8
= शुश्रुम 7-4-60.
“अनु” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
अनु + शुश्रुम = अनुशुश्रुम ।