Table of Contents

<<7-2-9 —- 7-2-11>>

7-2-10 एकाच उपदेशे ऽनुदात्तात्

प्रथमावृत्तिः

TBD.

काशिका

उपदेशे य एकाच् धातुरनुदात्तश्च तस्मादिडागमो न भवति। प्रकृत्याश्रयो ऽयं प्रतिषेधः। के पुनरुपदेशे ऽनुदात्ताः? ये तथा गणे पठ्यन्ते, त एव विस्पष्टार्थम् अनिट्कारिकासु प्रविभक्ताः प्रदर्श्यन्ते। अनिट्स्वरान्तो भवति इति दृश्यतामिमांस्तु सेटः प्रवदन्ति तद्विदः। अदन्तमृ\उ0304दन्तमृतां च वृङ्वृञौ श्विडीङिवर्णेष्वथ शीङ्श्रिञावपि। गुणस्थमूदन्तमुतां च रुस्नुवौ क्षुवं तथोर्णोतिमथो युणुक्ष्णवः। इति स्वरान्ता निपुणं समुच्चितास्ततो हलन्तानपि सन्निबोधत। द्वये एव धातवः, स्वरान्ताः व्यञ्जनान्ताश्च। तत्र सर्वे स्वरान्ताः एकाचः अनुदात्ताः। अवधिष्ट। ऋ\उ0304दन्तम् तरिता, तरीता। ऋतां च वृङ्वृञौ निर्वरिता, निर्वरीता। प्रवरिता, प्रवरीता। श्विडीङिवर्णेष्वथ शीङ्श्रिञावपि श्वयिता। उड्डयिता। शयिता। श्रयिता। गणस्थमूदन्तम् लविता। पविता। उतां च उर्स्नुवौ क्षुवं तथोर्णोतिमथो युणुक्ष्णवः रविता। प्रस्नविता। क्षविता। प्रोर्णविता। वाच्य ऊर्णोर्णुवद्भावो यङ्प्रसिद्धिः प्रयोजनम् इत्यतिदेशादेकाच्त्वम् ऊर्णोतेरस्ति इति उदात्त उपदिश्यते। यविता। नविता। क्ष्णविता। इति स्वरान्ता निपुणं समुच्चितास् ततो हलन्तानपि सन्निबोधत। शकिस्तु कान्तेष्वनिडेक इष्यते घसिश्च सान्तेसु वसिः प्रसारणी। घसिः प्रकृत्यन्तरम् अस्ति घस्ता। वसिः प्रसारणी वस्ता। प्रसारणी इति किम्? वसिता वस्त्राणाम्। वस निवासे इत्यस्य यजादित्वात् संप्रसारणं विहितम्, न तु वस आच्छादने इत्यस्य। सभिस्तु भान्तेष्वथ मैथुने यभिस्ततस्तृतीयो लभिरेव नेतरे। आरब्धा। यब्धा। लब्धा। यमिर्यमन्तेष्वनिडेक इष्यते रमिस्च यश्च श्यनि पठ्यते मनिः। नमिश्चतुर्थो हनिरेव पञ्चमो गमिश्च षष्ठः प्रतिषेधवाचिनाम्। यन्ता। रन्ता। मन्ता। श्यनि इति किम्? मनुतेः मनिता इत्येव भवति। नन्ता। हन्ता। गन्ता। दिहिर्दुहिर्मेहतिरोहती वहिर्नहिस्तु षष्थो दहतिस्तथा लिहिः। इमे ऽनिटो ऽष्टाविह मुक्तसंशया गणेषु हान्ताः प्रविभज्य कीर्तिताः। देग्धा। दोग्धा। मेढा। रोढा। वोढा। नद्धा। दग्धा। लेढा। मुक्तसंशयाः इति किम्? तन्त्रान्तरे चत्वारो ऽपरे पठ्यन्ते। सहिमुहिरिहिलुहयः। तत्र सहेर्विकल्पस्तकारादौ, मुहिरपि रधादौ पठ्यते, तेन तौ ससंशयौ सविकल्पौ। इतरौ तु धातुषु न पठ्येते, कैश्चिदभ्युपगम्येते इति स्वरूपेण एव ससंशयौ। दिशिं दृशिं दंशिमथो मृशिं स्पृशिं रिशिं रुशिं क्रोशतिमष्टमं विशिम्। लिशं च शान्ताननिटः पुराणगाः पठन्ति पाठेषु दशैव नेतरान्। देश्टा। द्रष्ता। दंष्टा। आम्रष्टा, आमर्ष्टा। स्प्रष्टा, स्पर्ष्टा। ऋदुपधानाम् उदात्तोपदेशानां मृजिदृशी वर्जयित्वा अनुदात्तस्य चर्दुपधस्य अन्यतरस्याम् 6-1-59 इति रमागमविकल्पः। रेष्टा। रोष्टा। क्रोष्टा। प्रवेष्टा। लेष्टा। रुधिः सराधिर्युधिबन्धिसाधयः क्रुधक्षुधी शुध्यतिबुध्यती व्यधिः। इमे तु धान्ता दश ये ऽनिटो मतास्ततः परं सिध्यतिरेव नेतरे। रोद्धा। राद्धा। योद्धा। बन्द्धा। साद्धा। क्रोद्धा। क्षोद्धा। शोद्धा। बोद्धा। व्यद्धा। सेद्धा। बुध्यतिसिध्यत्योः श्यना निर्देशात् न्याय्यविकरणयोर् बुद्धिसिध्योरिड् भवत्येव। बोधिता। सिधिता। निष्ठायामापि प्रतिषेधाभावात् बुधितम्, सिधितम् इत्येव भवति। शिषिं पिषिं शुष्यतिपुष्यती त्विषिं विषिं श्लिषिं तुष्यतिदुष्यती द्विषिम्। इमान्। दशैवोपदिशन्त्यनिड्विधौ गणेषु षान्तान् कृषिकर्षती तथा। शेष्टा। पेष्टा। शोष्ट। पोष्टा। त्वेष्टा। वेष्टा। श्लेष्ट। तोष्टा। दोष्टा। द्वेष्टा। क्रष्ट। कर्ष्टा। कृषेस्तौदादिकस्य भौवादिकस्य च कृषिकर्षती इति निर्देशः। तपिं तिपिं चापिमथो वपिं स्वपिं लिपिं लुपिं तृप्यतिदृप्यती सृपिम्। स्वरेण वीचेन शपिं छुपिं क्षिपिं प्रतीहि पान्तान् पठितांस्त्रयोदश। तप्ता। तेप्ता। आप्ता। वप्ता। स्वप्ता। लेप्ता। लोप्ता। तृप्यतिदृप्यत्योरनुदात्तत्वममागमार्थमेव। इट् त्वनयोः रधादिपाठाद् विकल्पेन भवति। त्रप्ता, तर्प्ता, तर्पिता। द्रप्ता, दर्प्ता, दर्पिता। तुदादिषु तु यौ तृपिदृपी तावुदत्तावेव। स्रप्ता, सर्प्ता। शप्ता। छोप्ता। क्षेप्ता। अदिं हदिं स्कन्दिभिदिच्छिदिक्षुदीन् शदिं सदिं स्विद्यतिपद् यती खिदिम्। तुदिं नुदिं विद्यति विन्त इत्यपि प्रतीहि दान्तान् दश पञ्च चानिटः। अत्ता। हत्ता। स्कन्ता। भेत्ता। छेत्ता। क्षोत्ता। शत्ता। सत्ता। स्वेत्ता। स्विद्यति इति श्यना निर्देशो ञिष्विदा इत्यस्य ग्रहणं मा भूतिति। उदात्त एव अयम्। पत्ता। खेत्ता। तोत्ता। नोत्ता। वेत्ता। विद्यति विन्त इत्यपि श्यना श्नमा च निर्देशो ऽन्यविकरणनिवृत्त्यर्थः। वेत्तिविन्दती उदात्तौ एव। वेदिता विद्यानाम्। वेदिता धनानाम्। पचिं वचिं विचिरिचिरञ्जिपृच्छतीन् निजिं सिचिं मुचिभजिभञ्जिभृज्जातीन्। त्यजिं यजिं युजिरुजिसञ्जिमज्जतीन् भुजिं स्वजिं सृजिमृजी विद्ध्यनिट्स्वरान्। पक्ता। वक्ता। विवेक्ता। रेक्ता। रङ्क्ता। प्रष्टा। निर्णेक्ता। सेक्ता। मोक्ता। भक्ता। भङ्क्ता। भ्रष्टा, भर्ष्टा। त्यक्ता। यष्टा। योक्ता। रोक्ता। सङ्क्ता। मङ्क्ता। भोक्ता। परिष्वक्ता। स्रष्टा। मार्ष्टा। मृजिरयमूदित् पठ्यते, ततो ऽस्य विकल्पेन इटा भवितव्यम्। मार्ष्टा, मर्जिता इति, अमागमो ऽप्यस्य न दृश्यते? तदिह पाठस्य प्रयोजनं चिन्त्यम्। केचिदस्य स्थाने विजिं पठन्ति, सृजिं विजिं विद्ध्यनिट्स्वरानिति। निजादिषु यो विजिरसौ अनिडिष्यते। तथा च तन्त्रान्तरे निजिविजिष्वञ्जिवर्जम् इत्युक्तम्। एकाच इति किम्? अवधीत्। वृद्धिनिवृत्त्यर्थमदन्तो विधिरुपदिश्यते। उपदेशग्रहणं किम्? इह च यथा स्यात्, लविष्यति, पचिष्यति। इह च मा भूत्, कर्ता कटान्, कर्तुम् इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

499 ऋतो हन्तेश्च स्यस्येट्. ह्वरिष्यति. ह्वरतु. अह्वरत्. ह्वरेत्..

बालमनोरमा

92 अथ लिटि थासः सेभावे `कृ' इत्यस्य द्वित्वादौ एधां च कृ से इति स्थिते `आद्र्धधातुकस्येड्वलादे'रितीडागमे प्राप्ते—एकाच उपदेशे। `ऋत इद्धातो' रित्यतो धातुरित्यनुवर्तते। `नेड्वशि कृती'त्यतो नेति च। तदाह– उपदेशे यो धातुरेकाजिति। #एकोऽच् यस्येति बहुव्रीहिः। आर्धधातुकस्येति। यद्यपीदं न श्रुतं, नाप्यनुवृत्तलभ्यं, तथाप्यार्थिकमिदम्, आद्र्धधातुकस्यैवेटः प्राप्तेः। वृत्तिग्रन्थे तु आद्र्धधातुकस्येति नोपात्तम्। नन्वेकाच उपदेशेऽनुदात्तादित्यत्र यदि उपदेशे इत्येतदेकाच इत्यत्रान्वेति तदा कर्तु मित्यत्र इण्निषेधो न स्यात्, कृञ्धातोरूदृ?दन्तैरित्यादिनाऽनुदात्तत्वस्य वक्ष्यमामत्वेऽपि तुमुन्प्रत्यये कृते `ञ्नत्यादिर्नित्य'मित्याद्युदात्तत्वात्। यदि तूपदेशे इत्येतदनुदात्तादित्यनेनान्वेति तदा यद्यपि नायं दोषः, कृते तुमुन्प्रत्यये उदात्तत्वेऽपि दातूपदेशकालेऽनुदात्तत्वेन तत्र इण्निषेधस्य निर्बाधत्वात्तथापि एधांचकृषे इत्यादाविण्निषेधो न स्यात्, द्वित्वे कृतेऽकाच्त्वादित्यत आह–उपदेश इत्युभयान्वयीति। `उपदेश' इत्येतत् `एका'जित्यत्र, `अनुदात्ता' दित्यत्र चान्वेति, मध्यममिन्यायादिति भावः। ननूदृ?दन्तैरित्यादिना परिगणितानामनुदात्तोपदेशधातूनामेकाच्त्वाऽव्यभिचारादेकाज्ग्रहणं मास्तु, उपदेशेऽनुदात्तादित्येवास्तु, #एतावतैव कर्तुं चकृष इत्यादाविण्निषेधसिद्धेरिति पृच्छति–एकाचः किमिति। यङ्लुग्व्यावृत्तिरिति। यङ्लुकि चर्करितेत्यादौ इण्निषेधव्यावृत्तये एकाज्ग्रहममित्यर्थः। ननु कृतेऽप्येकाज्ग्रहणे कथं यङ्लुग्व्यावृत्तिः, श्तिपा शपेत्यादेरुदाहरणानि यङ्लुङ्निरूपणे स्पष्टीभविष्यन्ति। नन्विह एकाज्ग्रहणाद्यङ्लुकीण्निषेधस्य व्यावृत्तावपि श्तिबादिनिर्दिष्टानां यङ्लुकि व्यावृत्तिः प्राचीनाचार्यसंमताऽपि पाणिनेरसंमतैवेत्यत आह– एतच्चेति। एतत् = श्तपा शपेति श्लोकसिद्धं सर्वमपि, इह = सूत्रे ,एकाज्ग्रहणेनैव एकदेशानुमत्या ज्ञाप्यत इत्यर्थः। ननु `हनो वध लिङि' `लुङि चे'ति आह–अच इत्येकत्वेत्यादि व्यावर्त्त्यत इत्यन्तम्। `एकाच उपदेशेऽनुदात्ता'दित्यत्र हि एकग्रहणमपनीयाऽच इत्युक्तेऽपि एकाऽच्कादिति लभ्यते, एकवचनोपात्तस्यैकत्वस्य त्यागे प्रमाणाऽभावात्। न चैवं सति एकत्वविशिष्टादचः परस्येत्येव लभ्येत,नत्वेकाच्कादिति बहुव्रीह्रर्थ इति वाच्यम्, अनुदात्तोपदेशेपरिगणने शक्लृपचिमुच्यादीनां परिगणनसामर्थ्येन `अच' इत्यस्य मत्वर्थलक्षणामाश्रित्य एकाज्वतो ग्रहणसंभवात्। तदेवमच इत्यनेनैव एकाच्कादिति सिद्धे यदेकग्रहणं करोति तत्सामथ्र्यादुपदेशे सर्वत्र एकाजेव न तु क\उfffद्स्मश्चदप्युपदेशे अनेकाजित्यर्थकल्पनया कदाचिदनेकाच्कोपदेशधातुव्र्यावत्र्यत इत्यर्थ-। तेनेति। उपदेशे सर्वत्र एकाजेवेत्यर्थलाभेन, हन्त्युपदेशे–हनिति स्थान्युपदेशे– एकाचोऽपि सतो हनिति धातोरादेशस्य वधेः परस्य इण्निषेधो नेत्यर्थ-। कुत इत्यत आह– आदेशोपदेश इति। `अवधी'दित्यत्र `अतो हलादेर्लघो' रिति वृद्धिनिवृत्तये हनो वधादेशस्य अदन्तताया भाष्ये उक्तत्वादिति भावः। ननु के तेऽनुदात्ता धातव इत्यत आह- - अनुदात्तास्त्वनुपदमेवेति। पदस्य पश्चादनुपदम्। पदमात्रे अतीते सतीत्यर्थः। अनन्तरमेवेति यावत्। एधांचकृषे इति। इडभावे प्रत्ययावयवत्वात्षत्वम्। एधांचक्राथे इति। लिट आथामादेशः। टेरेत्वंद्वित्वादि पूर्ववत्। लिटो धवमष्टेरेत्वे द्वित्वादौ एधाचकृ–ध्वे इति स्थिते।

तत्त्वबोधिनी

71 उभयान्वयीति। मध्ये पाठाद्देहलीदीपन्यायेन पूर्वोत्तराभ्यां संबध्यत इत्यर्थः। तत्रोत्तरान्वयस्य कर्तुं गन्तुमित्यादाविण्निषेधः फलम्।नित्स्वरेण संप्रत्युदात्तत्वात्। पिपक्षतिबिभत्सतीत्यादाविण्निषेधस्तु पूर्वान्वयस्य फलम्। द्वित्वे कृतेऽनेकाच्त्वात्। नन्वेकाच इत्युक्ते ह्रुपदेशपदेनाऽप्यन्वयः स्वीकर्तव्यस्तदेव मास्तु, उपदेशेऽनुदात्तादित्यनेनैवेष्टसिद्धेरिति शङ्कते- एकाचः किमिति। पिपक्षतीत्यादाविव यङ्लुक्यपीण्निषेधः स्यादेवेत्याशङ्कायायमाह णत्वं न। शपा यथा– भरेति। तेन बिभर्तेः सनि बिभरिषतीत्यत्र `सनीवन्तर्दे'तीड्विकल्पो न, किंतु नित्यमेवेट्। `एकाच' इति निषेधाऽप्रवृत्तेः। अनुबन्धेन निर्देशो द्विधा, स्वरूपेणेत्संज्ञकत्वेन च। स्वरूपेण यथा– `शीङः सार्वधातुके गुणः', `दीङो युडचि'इति। शेशितः। देद्यितः। तसि क्तप्रत्यये चेमे क्रमेणोदाहरणे। इत्संज्ञकत्वेन यथा– `अनुदात्तहितः' इति। तेन स्पर्धशीङादिभ्यः `अनुदात्तङितः' इत्यात्मनेपदं न। पास्पर्धीति। शेशयीति। गणेन यथा– बेभिदीति। `रुधादिभ्यः' इति श्नम्न। एकाज्ग्रहणं प्रकृतसूत्रे। तेन बेभेदिता चेच्छेदितेत्यादाविण् निषेधो न। एतच्चेति। न च श्तिपा शप#आद्यंशे कथमिदं ज्ञापकमिति शङ्क्यम्, एकादेशानुमतिद्वारा सर्वत्र ज्ञापनस्य `उपपदमति'ङित्यादौ दृष्टत्वात्। अत एव तत्र `गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्ते'रिति सिद्धमित्युक्तम्। अनन्यार्थैः स्यतिहन्तिभरेत्यादिभिः श्तिप्शबादिभिरेव ज्ञापनसंभवाच्च। `अपरस्पराः' इति सूत्रे सातत्यग्रहणेन एकदेशानुमत्या `लुम्पेदवश्यमः कृत्ये' इत्यादिपूर्वाचार्यश्लोको ज्ञापित इति तु तत्रैवाऽवोचाम। मनोरमायां त्वेकदेशानुमतिद्वारा पूर्वाचार्यपठितपरिभाषाया ज्ञापनस्य `गतिकारकोपपदाना'मित्यादौ दृष्टत्वादित्युक्तं, तदयुक्तमिति नव्याः। `गतिकारकोपपदाना'मित्याद्येव हि पूर्वाचार्याणां परिभाषा। न च तज्ज्ञापनं तत्रैव दृष्टमिति युज्यते वक्तुमिति। तद्वत इति। न च मत्वर्थलक्षणायां मानाऽभावः, वसत्यादीनामनुदात्तपाठस्यैव तत्र मानत्वात्। न चेदानीमनुदात्तपाठ परिभ्रष्टः, आधुनिकानां वसतिशल्कित्यादिपाठस्त्वनार्षत्वान्न मानमिति शङ्क्यं, पाणिनिना पठितानामेवानुदात्तधातूनामाधुनिकैव्र्याख्यातृपरम्परया सङ्गृहीतत्वात्। अन्यथा एकोऽच् यस्येति बहुव्रीहिलाभार्थमेकग्रहणे कृतेऽप्यनुदात्तपाठस्य परिभ्रष्टत्वाद्वसतिशक्लादयोऽनुदात्ताः, न तु भ्वेधादय इति निर्धारणं न स्यात्। एकग्रहणेति। नन्वेकाज्?ग्रहणं यङ्लुग्व्यावृत्त्यर्थमित्युक्त्वा पुनरेकग्रहणसामथ्र्यादित्यक्तौ परस्परव्याघातः स्यादिति चेत्। अत्राहुः– - एकाच्?शब्देनैकाज्?ग्रहणं यङ्लुग्व्यावृत्त्यर्थमिति नार्थः, किं तु वस्तुगत्यैवैकाज्ग्रहणं, तच्चैकग्रहणं विनैव लभ्यत इत्यदोष इति। वधेरिति। यस्तु तद्व्यावृत्तयेऽनिट्कारिकास्वदन्तपर्युदास उक्तो व्याघ्रभूतिना, स एव प्राचाऽनुसृतः। `अदूदृ?दन्तरुरुआउक्ष्णुशीयुनुक्षु\उfffदिआडीङ्?श्रिभिः। वृङवृञ्भ्यां च विनैकाचः स्वरान्ता धातवोऽनिटः' इति। स चादन्तपर्युदास इहोपेक्षितः। सूत्राननुगुणत्वात्। तथाहि – `सर्वे सर्वपदादेशाः' इति न्यायेन `कृ'इत्यादेः करित्यादिरादेशस्तस्य यथा स्थान्युपदेशं गृहीत्वा कर्ता हर्तेत्यादौ निषेधः प्रवर्तते तथैव वधादेशेऽपि प्रवर्तमानः केन वार्यताम् ?। अदन्तपर्युदाससामथ्र्यादिति चेन्न, सूत्रकारेणाऽपर्युदस्तत्वादिति भावः।

Satishji's सूत्र-सूचिः

वृत्ति: उपदेशे यो धातुरेकाजनुदात्तश्‍च तत आर्धधातुकस्‍येण्‍न। A “इट्”-आगम: is prohibited for a आर्धधातुक-प्रत्यय: when it follows a धातु: which in the धातु-पाठ: has only one vowel with a अनुदात्त: accent.

The following couplet gives a list of those verbal roots which end in a vowel and are NOT अनुदात्ता:।

ऊदॄदन्‍तैर्-यौति-रु-क्ष्णु-शीङ्-स्नु-नु-क्षु-श्वि-डीङ्-श्रिभि: ।

वृङ्वृञ्भ्‍यां च विनैकाचोऽजन्‍तेषु निहताः स्‍मृताः ।।

In the धातु-पाठ:, all the verbal roots which have a single vowel and which end in a vowel are अनुदात्ता:, EXCEPT the following:

1) Those which end in a ऊकार:। For example, √भू (भू सत्तायाम् १. १), √लू (लूञ् छेदने ९. १६), √पू (पूञ् पवने ९. १४) etc.

2) Those which end in a ॠकार:। For example, √कॄ (कॄ विक्षेपे ६. १४५), √पॄ (पालनपूरणयोः ९. २२), √गॄ (गॄ निगरणे ६. १४६) etc.

3) √यु (यु मिश्रणेऽमिश्रणे च २. २७)

4) √रु (रु शब्दे २. २८, रुङ् गतिरेषणयोः १. १११४)

5) √क्ष्णु (क्ष्णु तेजने २. ३२)

6) √शी (शीङ् स्वप्ने २. २६)

7) √स्नु (ष्णु प्रस्रवणे २. ३३)

8) √नु (णु स्तुतौ २. ३०)

9) √क्षु (टुक्षु शब्दे २. ३१)

10) √श्वि (ट्वोँश्वि गतिवृद्ध्योः १. ११६५)

11) √डी (डीङ् विहायसा गतौ १. ११२३, डीङ् विहायसा गतौ ४. ३०)

12) √श्रि (श्रिञ् सेवायाम् १. १०४४)

13) √वृ (वृङ् सम्भक्तौ ९. ४५)

14) √वृ (वृञ् वरणे ५. ८, वृञ् आवरणे १०. ३४५ (आधृषीय:))

In the धातु-पाठ:, among the verbal roots which have a single vowel and which end in a consonant, ONLY the following 103 are अनुदात्ता:। The list is organized in alphabetical order of the ending consonant of the verbal root.

1) कान्‍तेषु शक्‍लेकः । (Note: शकॢ + एक = शक्लेक:।) √शक् (शकॢँ शक्तौ ५. १७).

2) चान्तेषु पच्-मुच्-रिच्-वच्-विच्-सिच: षट् । √पच् (डुपचँष् पाके १. ११५१), √मुच् (मुचॢँ मोक्षणे ६. १६६), √रिच् (रिचिँर् विरेचने ७. ४), √वच् (वचँ परिभाषणे २. ५८ as well as the substitute “वच्” which comes in place of “ब्रू” by 2-4-53 ब्रुवो वचिः), √विच् (विचिँर् पृथग्भावे ७. ५) and √सिच् (षिचँ क्षरणे ६. १७०).

3) छान्तेषु प्रच्छ्येक: । √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६. १४९).

4) जान्तेषु त्यज्-निजिर्-भज्-भञ्ज्-भुज्-भ्रस्ज्-मस्ज्-यज्-युज्-रुज्-रञ्ज्-विजिर्-स्वञ्ज्-सञ्ज्-सृज: पञ्चदश । √त्यज् (त्यजँ हानौ १. ११४१), √निज् (णिजिँर् शौचपोषणयोः ३. १२), √भज् (भजँ सेवायाम् १. ११५३), √भञ्ज् (भञ्जोँ आमर्दने ७. १६), √भुज् (भुजोँ कौटिल्ये ६. १५३, भुजँ पालनाभ्यवहारयोः ७. १७), √भ्रस्ज् (भ्रस्जँ पाके ६. ४), √मस्ज् (टुमस्जोँ शुद्धौ ६. १५१), √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७), √युज् (युजँ समाधौ ४. ७४, युजिँर् योगे ७. ७, युजँ संयमने १०. ३३८ (आधृषीय:)), √रुज् (रुजोँ भङ्गे ६. १५२), √रञ्ज् (रञ्जँ रागे १. ११५४, रञ्जँ रागे ४. ६३), √विज् (विजिँर् पृथग्भावे ३. १३), √स्वञ्ज् (ष्वञ्जँ परिष्वङ्गे १. ११३१), √सञ्ज् (षञ्जँ सङ्गे १. ११४२) and √सृज् (सृजँ विसर्गे ४. ७५, सृजँ विसर्गे ६. १५०).

5) दान्तेषु अद्-क्षुद्-खिद्-छिद्-तुद्-नुद्-पद्य-भिद्-विद्य-विनद्-विन्द्-शद्-सद्-स्विद्य-स्कन्द्-हद: षोडश । √अद् (अदँ भक्षणे २. १), √क्षुद् (क्षुदिँर् सम्पेषणे ७. ६), √खिद् (खिदँ दैन्ये ४. ६६, खिदँ परिघाते ६. १७२, खिदँ दैन्ये ७. १२), √छिद् (छिदिँर् द्वैधीकरणे ७. ३), √तुद् (तुदँ व्यथने ६. १), √नुद् (णुदँ प्रेरणे ६. २, णुदँ प्रेरणे ६. १६२), √पद् (पदँ गतौ ४. ६५), √भिद् (भिदिँर् विदारणे ७. २), √विद् (विदँ सत्तायाम् ४. ६७), √विद् (विदँ विचारणे ७. १३), √विद् (विदॢँ लाभे ६. १६८)*, √शद् (शदॢँ शातने १. ९९१, शदॢँ शातने ६. १६४), √सद् (षदॢँ विशरणगत्यवसादनेषु १. ९९०, षदॢँ विशरणगत्यवसादनेषु ६. १६३), √स्विद् (ष्विदाँ गात्रप्रक्षरणे | ञिष्विदाँ इत्येके ४. ८५), √स्कन्द् (स्कन्दिँर् गतिशोषणयोः १. ११३४) and √हद् (हदँ पुरीषोत्सर्गे १. ११३२).

Note: The काशिका does NOT include the धातु: √विद् (विदॢँ लाभे ६. १६८) in this list.

6) धान्तेषु क्रुध्-क्षुध्-बुध्य-बन्ध्-युध्-रुध्-राध्-व्यध्-शुध्-साध्-सिध्या एकादश । √क्रुध् (क्रुधँ क्रोधे (कोपे) ४. ८६), √क्षुध् (क्षुधँ बुभुक्षायाम् ४. ८७), √बुध् (बुधँ अवगमने ४. ६८), √बन्ध् (बन्धँ बन्धने ९. ४४), √युध् (युधँ सम्प्रहारे ४. ६९), √रुध् (रुधिँर् आवरणे ७. १, अनो रुधँ कामे ४. ७०), √राध् (राधँ संसिद्धौ ५. १८, राधँ वृद्धौ ४. ७७), √व्यध् (व्यधँ ताडने ४. ७८), √शुध् (शुधँ शौचे ४. ८८), √साध् (साधँ संसिद्धौ ५. १९) and √सिध् (षिधुँ संराद्धौ ४. ८९).

7) नान्तेषु मन्यहनौ द्वौ । √मन् (मनँ ज्ञाने ४. ७३) and √हन् (हनँ हिंसागत्योः २. २).

8) पान्तेषु आप्-क्षिप्-छुप्-तप्-तिप्-तृप्य-दृप्य-लिप्-लुप्-वप्-शप्-स्वप्-सृपस्त्रयोदश । √आप् (आपॢँ व्याप्तौ ५. १६, आपॢँ लम्भने १०. ३७६ (आधृषीय:)), √क्षिप् (क्षिपँ प्रेरणे ४. १५, क्षिपँ प्रेरणे ६. ५), √छुप् (छुपँ स्पर्शे ६. १५४), √तप् (तपँ सन्तापे १. ११४०, तपँ ऐश्वेर्ये ४. ५४, तपँ दाहे १०. ३५० (आधृषीय:)), √तिप् (तिपृँ क्षरणे १. ४२०), √तृप् (तृपँ प्रीणने ४. ९२), √दृप् (दृपँ हर्षमोहनयोः ४. ९३), √लिप् (लिपँ उपदेहे ६. १६९), √लुप् (लुपॢँ छेदने ६. १६७), √वप् (डुवपँ बीजसन्ताने | छेदनेऽपि १. ११५८), √शप् (शपँ आक्रोशे १. ११५५, शपँ आक्रोशे ४. ६४), √स्वप् (ञिष्वपँ शये २. ६३) and √सृप् (सृपॢँ गतौ १. ११३८).

9) भान्तेषु यभ्-रभ्-लभस्त्रय: । √यभ् (यभँ मैथुने (विपरीतमैथुने)१. ११३५), √रभ् (रभँ राभस्ये १. ११२९) and √लभ् (डुलभँष् प्राप्तौ १. ११३०).

10) मान्तेषु गम्-नम्-यम्-रमश्चत्वार: । √गम् (गमॢँ गतौ १. ११३७), √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६), √यम् (यमँ उपरमे १. ११३९) and √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९).

11) शान्तेषु क्रुश्-दंश्-दिश्-दृश्-मृश्-रिश्-रुश्-लिश्-विश्-स्पृशो दश । √क्रुश् (क्रुशँ आह्वाने रोदने च १. ९९२), √दंश् (दंशँ दशने १. ११४४), √दिश् (दिशँ अतिसर्जने ६. ३), √दृश् (दृशिँर् प्रेक्षणे १. ११४३), √मृश् (मृशँ आमर्शने ६. १६१), √रिश् (रिशँ हिंसायाम् ६. १५६), √रुश् (रुशँ हिंसायाम् ६. १५५), √लिश् (लिशँ अल्पीभावे ४. ७६, लिशँ गतौ ६. १५७), √विश् (विशँ प्रवेशने ६. १६०) and √स्पृश् (स्पृशँ संस्पर्शने ६. १५८).

12) षान्तेषु कृष्-त्विष्-तुष्-द्विष्-दुष्-पुष्य-पिष्-विष्-शिष्-शुष्-श्लिष्या एकादश । √कृष् (कृषँ विलेखने १. ११४५, कृषँ विलेखने ६. ६), √त्विष् (त्विषँ दीप्तौ १. ११५६), √तुष् (तुषँ प्रीतौ ४. ८१), √द्विष् (द्विषँ अप्रीतौ २. ३), √दुष् (दुषँ वैकृत्ये ४. ८२), √पुष् (पुषँ पुष्टौ ४. ७९), √पिष् (पिषॢँ सञ्चूर्णने ७. १५), √विष् (विषॢँ व्याप्तौ ३. १४, विषुँ सेचने १. ७९४, विषँ विप्रयोगे ९. ६२), √शिष् (शिषँ हिंसायाम् १. ७८३, शिषॢँ विशेषणे ७. १४, शिषँ असर्वोपयोगे १०. ३४९ (आधृषीय:)), √शुष् (शुषँ शोषणे ४. ८०) and √श्लिष् (श्लिषँ आलिङ्गने ४. ८३).

13) सान्तेषु घस्-वसती द्वौ । √घस् (घसॢँ अदने १. ८१२) and √वस् (वसँ निवासे १. ११६०).

14) हान्तेषु दह्-दिह्-दुह्-नह्-मिह्-रुह्-लिह्-वहोऽष्टौ । √दह् (दहँ भस्मीकरणे १. ११४६), √दिह् (दिहँ उपचये २. ५), √दुह् (दुहँ प्रपूरणे २. ४), √नह् (णहँ बन्धने ४. ६२), √मिह् (मिहँ सेचने १. ११४७), √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५), √लिह् (लिहँ आस्वादने २. ६) and √वह् (वहँ प्रापणे १. ११५९).

अनुदात्ता हलन्तेषु धातवस्त्र्यधिकं शतम् (१०३)।