Table of Contents

<<3-1-13 —- 3-1-15>>

3-1-14 कष्टाय क्रमणे

प्रथमावृत्तिः

TBD.

काशिका

क्यङनुवर्तते, न क्यष्। कष्टशब्दाच् चतुर्थीसमर्थात् क्रमणे ऽर्थे ऽनार्जवे क्यङ् प्रत्ययो भवति। कष्टाय कर्मणे क्रामति कष्तायते। अत्यल्पम् इदम् उच्यते। स्त्रकष्टकक्षकृच्छ्रगहनेभ्यः कण्वचिकीर्षायाम् इति वक्तव्यम्। कन्वचिकीर्षा पापचिकीर्षा, तस्यामेतेभ्यः क्यङ् प्रत्ययो भवति। स्त्रायते। कष्तायते। कक्षायते। कृच्छ्रायते। गहनायते। कण्वचिकीर्षायाम् इति किम्? अजः कष्टम् क्रामति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

495 कष्टाय क्रमणे। `क्रमण'शब्दं विवृणोति उत्साहे इति। अस्वरितत्वात् क्यषिति नानुवर्तते इति भावः। `क्रियार्थोपपदस्ये'ति चतुर्तीति मत्वा आह– पापं कर्तुमिति। क्रमते इत्यत्र `वृत्तिसर्गतायनेषु क्रमः' इति तङ्। `कण्वचिकीर्षाया'मित्यत्र कण्वपदं व्याचष्टे– कण्वं पापमिति। सत्रादिशब्दान्विवृणोति– सत्रादय इति। द्वितीयान्तेभ्य इति। चिकीर्षायां द्वितीयान्तस्यैवाऽन्वययोग्यत्वादिति भावः। कण्वशब्दस्तु सत्रादिशब्दानां कण्वपरत्वे तात्पर्यग्राहकः। केचित्तु `कण्वे'त्यविभक्तिकम्। कण्वर्तिभ्य इति व्याचक्षते। अस्वपदविग्रह इति। वृत्तावेव सत्रादिशब्दानां पापवाचित्वादिति भावः। इदं कष्टं शब्दाद्नयत्रैव। `कष्टाय क्रमते' इति तु स्वपदविग्रहोऽस्त्येव। भाष्ये एवं विग्रहं प्रदश्र्य सत्रादिषु विग्रहाऽप्रदर्शनादित्याहः।

तत्त्वबोधिनी

424 कष्टाय क्रमणे। क्यङेवानुवर्तते, स्वरितत्वात्, न तु क्यष्। कष्टायेति निर्देशादेव चतुथ्र्यनतं लभ्यते। क्रमणमुत्साहः। `वृत्तिसर्गतायनेषु' इति कर्मेरात्मनेपदविदायकसूत्रे `सर्ग उत्साह' इति सर्वैव्र्याख्यातत्वात्। सत्रकक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायामिति वक्तव्यम्। कण्वं। कष्टं– - कृच्छ्रम्। `कृच्छ्रगहनेयोः कषः' इति इडभावः। न च दुःखं कर्तुमुत्साहः संभवतीति तत्साधनं पापमिह गृह्रत इत्याह—- पापं कर्तुमिति। द्वितीयान्तेभ्य इति। चिकीर्षायां द्वितीयान्तस्यैवान्वययोग्यत्वादेवमुक्तम्।

Satishji's सूत्र-सूचिः

TBD.