Table of Contents

<<7-1-61 —- 7-1-63>>

7-1-62 नेट्यलिटि रधेः

प्रथमावृत्तिः

TBD.

काशिका

इडादौ अलिटि प्रत्यये परे रधेर् नुमागमो न भवति। रधिता। रधितुम्। रधितव्यम्। इटि इति किम्? रन्धनम्। रन्धकः। अलिटि इति किम्? ररन्धिव। ररन्धिम। नुमि कृते संयोगान्तत्वातसंयोगल्लिट् कित् 1-2-5 इति कित्त्वं न अस्ति इति नलोपो न भवति। अथ क्वसौ कथं भवितव्यम्? रेधिवानिति। कथम्? एत्वभ्यासलोपयोः कृतयोः इडागमः क्रियते, ततो नुमागमः, तस्य औपदेशिककित्त्वश्रयो लोपः। अथ इटि लिटि इत्येवं नियमः कस्मान् न क्रियते, लिट्येव इटि न अन्यत्र इति? विपरीतम् अप्यवधारणं सम्भाव्येत, इट्येव लिटि न अन्यत्र इति। तथा हि सति ररन्ध इत्यत्र न स्यात्, रधिता इत्यत्र च स्यादेव।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

346 नेट\उfffद्लिटि रधेः। `इदितो नुम् धातो'रित्यतो नुमित्यनुवर्तते। तदाह– लिड्वर्जे इटीति। अङित्विति। पुषाद्यङि कृते सतीत्यर्थः। अरधदिति। `मो अहं द्विषतेऽरधम्।' णश अदर्शने इति। णोपदेशोऽयं सेट्। `रधादिभ्यश्चे'ति वट्। तत्र इट्पक्षे आह–नेशिथेति। `थलि च सेटी'त्येत्त्वाभ्यासलोपाविति भावः। इडभावपक्षे ननश्- थ इति स्थिते–

तत्त्वबोधिनी

303 नेट\उfffद्लिटि। इटीति किम् ?। रन्धकः। अलिटीति किम् ?। ररन्धिव। नुमि कृते संयोगात्परत्वेनाऽकित्त्वान्नलोपो न।

Satishji's सूत्र-सूचिः

TBD.