Table of Contents

<<7-1-62 —- 7-1-64>>

7-1-63 रभेरशब्लिटोः

प्रथमावृत्तिः

TBD.

काशिका

रभेरङ्गस्य शब्लिड्वर्जिते ऽजादौ प्रत्यये परतो नुमागमो भवति। आरम्भयति। आरम्भकः। साध्वारम्भी। आरम्भमारम्भम्। आरम्भो वर्तते। अशब्लिटोः इति किम्? आरभते। आरेभे। अचि इत्येव, आरब्धा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

409 रभेरशब्लिटोः। `इदितो नुम्धातोरित्यतो नुमिति. `रधिजभोरची'त्यतोऽचीति चानुवर्तते। तदाह – रभेर्नुमित्यादि।

तत्त्वबोधिनी

358 रभेरशब्लिटोः। `रधिजभो'रित्यतोऽचीति, `इदितः' इत्यतो नुमितिचानुवर्तते। अचि किम ?। आरब्धम्। अशब्लिटोः किम् ?। रभते। रेभे।

Satishji's सूत्र-सूचिः

TBD.