Table of Contents

<<7-1-62 —- 7-1-64>>

7-1-63 रभेरशब्लिटोः

प्रथमावृत्तिः

TBD.

काशिका

रभेरङ्गस्य शब्लिड्वर्जिते ऽजादौ प्रत्यये परतो नुमागमो भवति। आरम्भयति। आरम्भकः। साध्वारम्भी। आरम्भमारम्भम्। आरम्भो वर्तते। अशब्लिटोः इति किम्? आरभते। आरेभे। अचि इत्येव, आरब्धा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

409 रभेरशब्लिटोः। `इदितो नुम्धातोरित्यतो नुमिति. `रधिजभोरची'त्यतोऽचीति चानुवर्तते। तदाह – रभेर्नुमित्यादि।

तत्त्वबोधिनी

358 रभेरशब्लिटोः। `रधिजभो'रित्यतोऽचीति, `इदितः' इत्यतो नुमितिचानुवर्तते। अचि किम ?। आरब्धम्। अशब्लिटोः किम् ?। रभते। रेभे।

Satishji's सूत्र-सूचिः

TBD.