Table of Contents

<<7-1-60 —- 7-1-62>>

7-1-61 रधिजभोरचि

प्रथमावृत्तिः

TBD.

काशिका

रधि जभि इत्येतयोः अजादौ प्रत्यये नुमागमो भवति। रन्धयति? रन्धकः। साधुरन्धी। रन्धंरन्धम्। रन्धो वर्तते। जम्भयति। जम्भकः। साधुजम्भी। जम्भंजम्भम्। जम्भो वर्तते। परापि सती वृद्धिर्नुमा बाध्यते, नित्यत्वातचि इति किम्? रद्धा। जभ्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

145 रधिजभोः। `रध हिंसाया'मिति श्यन्विकरणस्य चतुर्थान्तस्य इका निर्देशः। `इदितो नुम् धातो'रित्यतो नुमित्यनुवर्तते। तदाह–एतयोरिति। अनिदित्त्वान्नुम्विधिः। जम्भत इति। शपि नुम्। `जम्भिते'त्यादाविटि अच्परकत्वान्नुम्। अचि किम् ?। रद्धा। जब्धम्। श्रम्भु इति। अकारमध्यः। ष्टुभु स्तम्भ इति। ष्टुत्वेन तकारस्य टः। षोपदेशोऽयम्। विष्टोभत इति। `उपसर्गात्सुनोती'ति षत्वम्। व्यष्टोभिष्टेति। `प्राक्सितादड्व्यवायेऽपी'ति षत्वम्। तिपृ इत्यादयः स्तोभत्यन्ता अनुदात्तेतो गताः। गुपू रक्,ण इति। ऊदिदयम्।

तत्त्वबोधिनी

119 रन्धयति। परापि वृद्धिर्नित्येन नुमा बाध्यते। अचीति किम् ?। रद्दा। जब्धा।

Satishji's सूत्र-सूचिः

TBD.