TBD.
समासे ऽनञ्पूर्वे क्त्वा इत्येतस्य ल्यपित्ययम् आदेशो भवति। प्रकृत्य। प्रहृत्य। पार्श्वतःकृत्य। नानाकृत्य। द्विधाकृत्य। समासे इति किम्? कृत्वा। हृत्वा। अनञ्पूर्वे इति किम्? अकृत्वा। अहृत्वा। परमकृत्वा। उत्तमकृत्वा। अनञिति नञा अन्यदनञ् नञ्सदृशम् अव्ययं परिगृह्यते। तेन नञनव्ययं चनञ् न भवति। स्नात्वाकालकादिषु मयूरव्यंसकादिषु निपातनाल् ल्यबादेशो न भवति। अथवा समासे इति निर्धारणे सप्तमी। तेन क्त्वान्तः समास एव परिगृह्यते। स च येन विधिस् तदन्तस्य इत्यनेन तदन्तविधिना, न तु कृद्ग्रहणे गतिकारकपूर्वस्य अपि इति। तथा च अनञ्पूर्वे इत्युच्यते। गतिकारकपूर्वस्येव तु ग्रहणे सति नञ्पूर्वस्य प्रसङ्ग एव न अस्ति, नञ् न गतिर् न कारकम् इति। प्रधाय, प्रस्थाय इत्यादिषु हिप्रभृतीनन्तरङ्गनपि विधीन् बहिरङ्गो ल्यब् बाधते एव इति ज्ञापितम् एतत्।
TBD.
887 अव्ययपूर्वपदेऽनञ्समासे क्त्वो ल्यबादेशः स्यात्. तुक्. प्रकृत्य. अनञ् किम्? अकृत्वा..
–
1600 समासेऽनञ्। नञ्?भिन्नं नञ्सदृशम्। अव्ययमिति यावत्। तत्पूर्वं पूर्वपदं यस्य समासस्येति व्याचष्टे– अव्ययेति। प्रकृत्येति। प्रशब्दः क्त्वाप्रत्ययार्थगतप्रकर्षस्य द्योकः, स तु `कुगतिप्रादयः' इति क्त्वान्तेन नित्यं समस्यते। पर्युदासेति।प्रसज्यप्रतिषेधाश्रयणे तु स्यादेवात्र ल्यबिति भावः।
वृत्तिः अव्ययपूर्वपदेऽनञ्समासे क्त्वो ल्यबादेशः स्यात् । When the affix ‘क्त्वा’ occurs at the end of a compound, it is replaced by ‘ल्यप्’ provided the prior member of the compound is a अव्ययम् other than ‘नञ्’ (ref. 2-2-6
Note: As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) inherits the property of being a कित् affix with the designation of कृत् (by 3-1-93) and आर्धधातुकम् (by 3-4-114.)
Note: अनञ् किम्? अकृत्वा।
उदाहरणम् – दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥ (गीता 1-2) उपसंगम्य is derived from the verbal root √गम् (गमॢँ गतौ १. ११३७) preceded by the उपसर्ग: ‘उप’ and ‘सम्’।
गम् + क्त्वा 3-4-21
‘गम् + क्त्वा’ is compounded with ‘उप’ and ‘सम्’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
उप + सम् + गम् + क्त्वा 2-2-18
= उप + सम् + गम् + ल्यप् 7-1-37, 1-1-55
= उप + सम् + गम् + य 1-3-3, 1-3-8, 1-3-9
Example continued under 6-4-38