Table of Contents

<<4-3-97 —- 4-3-99>>

4-3-98 वासुदेवार्जुनाभ्यां वुन्

प्रथमावृत्तिः

TBD.

काशिका

वासुदेवार्जुनशब्दाभ्यां वुन् प्रत्ययो भवति सो ऽस्य भक्तिः इत्येतस्मिन् विषये। छाणोरपवादः। वासुदेवो भक्तिरस्य वासुदेवकः। अर्जुनकः। ननु च वासुदेवशब्दाद् गोत्रक्षत्रियाऽख्येभ्यः इति वुञस्त्येव, न च अत्र वुन्वुञोर् विशेषो विद्यते, किमर्थं वासुदेवग्रहणम्? संज्ञैषा देवताविशेषस्य न क्षत्रियाख्या। अल्पाच्तर 2-2-34), अजाद्यदन्तम् (*2,2.33 इति च अर्जुनशब्दस्य पूर्वनिपातम् अकुर्वन् ज्ञापयति अभ्यर्हितं पूर्वम् निपतति इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1457 वासुदेव। `सोऽस्य भक्ति'रित्येव। वासुदेवक इति। वासुदेवो भक्तिरस्येति विग्रहः। एवमर्जुनकः। ननु वसुदेवस्यापत्य'मित्यर्थे `ऋष्यन्धकवृष्णिकुरुभ्यश्चे'ति वाष्र्णेयत्वादणि वासुदेवशब्दात् `गोत्रक्षत्रियाख्येभ्यो बहुलं वु'ञिति वुञैव सिद्धत्वाद्वासुदेवग्रहणं व्यर्थमिति चेत्, सत्यम्, अणन्तो वासुदेवशब्दोऽत्र न गृह्रते किंतु यस्मिन्समस्तं वसति, यो वा समस्ते वसति स वासुः स चासौ देवश्चेति व्युत्पत्त्या वासुदेवशब्दोऽयं भगवति योगरूढ एवेति न दोषः। उक्तच भाष्ये-`नैषा क्षत्रियाख्या, संज्ञैषा तत्रभवतः' इति।

तत्त्वबोधिनी

1139 वासुदेवार्जुनाभ्यां बुन्। छाऽणोरपवादः। `अजाद्यदन्तम्', `अल्पाच्तर'मिति सूत्राभ्यामर्जुनस्य पूर्वनिपाते प्राप्ते तस्याऽकरणं `सर्वतोऽभ्यर्हितं पूर्वं निपतती'ति ज्ञापनार्थम्। ननु वसुदेवस्यापत्यमित्यर्थे `ऋष्यन्धके'त्यणि वासुदेवशब्दो निष्पन्नः। तथा च तत्र `गोत्रक्षत्रियाख्येभ्यः'इत्युत्तरसूत्रेण वुञेवाऽस्तु , किमनेन वुना। न ह्रत्र वृद्धौ विशेष, प्रागेव वृद्धत्वात्। न च `वृद्धिनिमित्तस्ये'ति पुंवद्भावनिषेधो दोषः स्यादिति वाच्यं, वुन्यपि `न कोपधायाः इति नि,#एधस्येष्यमाणत्वात्। न वा स्वरे विशेषः, `ञ्नित्यादिर्नित्य'मिति तुल्यस्वरत्वात्। नापि `अभ्यर्हितं पूर्व'मिति ज्ञापनमेव तत्फलमिति वाच्यं, तथात्वे हि पूर्वनिपातप्रकरणे `अभ्यर्हित'मित्येव लाघवात्कुर्यादिति चेत्। अत्र भाष्यं—`संज्ञैषा भगवतः'इति। अयं भावः—`सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः। ततोऽसौ वासुदेवेति विद्वद्भिः परिगीयते।'इति स्मृतेः परमात्मा इह वासुदेवः। सर्वत्रासौ वसति, सर्वमत्र वसतीति वा व्युत्पत्त्या वासुः। बाहुलकादुण्। वासश्चासौ देवश्चेति विग्रङः। तथा च नेयं गोत्राख्या, नापि क्षत्रियाख्येति युक्त एव विन्विधिः। `भ्यर्हितं पूर्व'मिति तु प्रसङ्गाज्ज्ञापितं। तदप्यनित्यं `\उfffदायुवमघोना'मित्यादिलिङ्गादित्यवधेयम्।

Satishji's सूत्र-सूचिः

TBD.