Table of Contents

<<6-4-82 —- 6-4-84>>

6-4-83 ओः सुपि

प्रथमावृत्तिः

TBD.

काशिका

धात्ववयवः संयोगः पूर्वो यस्मादुवर्णान् न भवति, तदन्तस्य अङ्गस्य अनेकाचः अजादौ सुपि परतो यणादेशो भवति। खलप्वौ। खलप्वः। शतस्वौ। शतस्वः। सकृल्ल्वौ। सकृल्ल्वः। सुपि इति किम्? लुलुवतुः। लुलुवुः। अनेकाचः इत्येव, लुवौ। लुवः। असंयोगपूर्वस्य इत्येव, कटप्रुवौ। कटप्रुवः। गतिकारकाभ्याम् अन्यपूर्वस्य न इष्यते, परमलुवौ। परमलुवः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

211 धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचोऽङ्गस्य यण् स्यादचि सुपि. खलप्वौ. खलप्वः. एवं सुल्वादयः.. स्वभूः. स्वभुवौ. स्वभुवः.. वर्षाभूः..

बालमनोरमा

279 ओः सुपि। `एरनेकाचः' इति सूत्रं, एरितिवर्जमनुवर्तते। `अचि श्नुधातु' इत्यतोऽचीत्यनुवृत्तं। तेन सुपीति विशेष्यते। तदादिविधिः। `इणो य' णित्यतो यणित्यनुवर्तते। तदाह–धात्ववयवेत्यादिना। वार्तिकमत्रानुवर्तते इति भावः। खलप्वौ खलप्व इति। कारकपूर्वकत्वादिह यणिति भावः। हे खलपूः। खलप्वम् खलप्वौ खलप्वः। खलप्वा। खलप्वे। खलप्वः। खलप्वः खलप्वोः। खलप्वि। इह अजादौ `एरनेकाचः' इति `ओः सुपी'ति यण् च सर्वत्र पूर्वरूपसवर्णदीर्घापवादाः। एवं सुल्वादय इति। सुष्ठु लुनातीति सुलूः। गतिपूर्वकत्वादिहापि यण्। आदिना केदारलूरित्यादिसङ्ग्रहः। कटप्ररिति। `प्रुगतौ'। `क्विब्वची'त्यादिना क्विप्, उकारस्य दीर्घश्च। परमलुवाविति। परमश्चासौ लूश्चेति विग्रहः। गतिकारकेतरपूर्वकत्वान्न यण्। लुलुवतुरिति। अतुसि लुलू इत्यस्याऽनेकाच्त्वेऽपि सुप्परकत्वाऽभावान्न यणिति भावः। स्वभूरिति। स्वस्माद्भवतीति क्विप्। कारकपूर्वकत्वाद्यणि प्राप्ते आह-न भूसुधियोरिति। वर्षासु भवति वर्षाभूः। वर्षर्तावुत्पन्न इत्यर्थः। वर्षशब्दो नित्यस्त्रीलिङ्गबहुवचनान्तः। `अप्सुमनःसमासिकतावर्षाणां बहुत्वं चे'ति लिङ्गानुशासने स्त्र्यधिकारे सूत्रकृतोक्तेः। `वर्षाभूर्ददुरे पुमान्' इति यादवः। `न भूसुधियो'रिति निषेधे प्राप्ते-।

तत्त्वबोधिनी

241 ओः सुपि। `इणो यण्'इत्यतो यण्, `एरनेकाचः 'इति सूत्रं च सर्वमनुवर्तते इवर्णवर्जम्, `ओ'रित्युकारस्य कार्यिणो निर्देशात्। `अचि श्नुधात्वि'ति सूत्राद्धातुः `एरनेकाचः'इत्यत्रेव संवध्यत इत्याशयेन व्याचष्टे— धात्ववयवसंयोगेत्यादि।

Satishji's सूत्र-सूचिः

TBD.