TBD.
ण्यतः कृत्यस्य अर्थो भावकर्मणी, ताभ्याम् अन्यत्र या निष्ठा तस्यां क्षियो दीर्घो भवति। आक्षीणः। प्रक्षीणः। परिक्षीणः। अकर्मकत्वात् क्षियः कर्तरि क्तः। प्रक्षीणम् इदम् देवदत्तस्य इति क्तो ऽधिकरणे च ध्रौव्यगति. प्रत्यवसानार्थेभ्यः 3-4-76 इत्यधिकरणे क्तः। अण्यदर्थे इति किम्? अक्षितमसि मा मेक्षेष्ठाः। क्षितम् इति भावे दीर्घाभावात् क्षियो दीर्घात् 8-2-46 इति निष्ठानत्वम् अपि न भवति।
TBD.
–
824 निष्ठायामण्यदर्थे। ण्यदर्तो भावकर्मणी इति। `ऋहलो'रिति ण्यतः कृत्यसंज्ञकस्य `तयोरेवे'ति भावकर्मणोरेव प्रवृत्तेरिति भावः। ततोऽन्यत्रेति। कर्तरीत्यर्थः। क्तवताविति फलितम्। क्षियो दीर्घः स्यादिति। क्षिय इति पूर्वसूत्रमनुवर्तते, `युप्लुवोर्दीर्?घश्छन्दसी'त्यतो दीर्घ इति चेति भावः।
677 ण्यदर्थो भावकर्मणी इति। यद्यपि धाय्या ऋगित्यादौ कणादावपि बहुलकाण्ण्यद्भवति, तथापि `तयोरेवे'ति वचनाद्भावकर्मणी एव साक्षादुपात्तोऽर्थ इति स एवेह विवक्षित इति भावः।
वृत्तिः ण्यदर्थो भावकर्मणी ततोऽन्यत्र निष्ठायां क्षियो दीर्घ: स्यात् । (The final vowel) of a अङ्गम् consisting of the verbal root √क्षि (क्षि क्षये १. २६९, क्षि निवासगत्योः ६. १४३) is elongated when followed by a निष्ठा affix which is used in a non-passive sense.
उदाहरणम् – प्रातिपदिकम् “क्षीण” derived from the verbal root √क्षि (क्षि क्षये १. २६९).
क्षि + क्त 3-2-102, 3-4-72
= क्षि + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35 and 1-1-5 stops 7-3-84.
= क्षी + त 6-4-60, 1-1-52
Example continued under 8-2-46