Table of Contents

<<3-4-75 —- 3-4-77>>

3-4-76 क्तो ऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः

प्रथमावृत्तिः

TBD.

काशिका

द्रौव्यार्थाः अकर्मकाः, प्रत्यवसानार्थाः अभ्यवहारार्थाः इति स्वनिकायप्रसिद्धिः। ध्रौव्यागतिप्रत्यवसानार्थेभ्यः यः क्तो विहितः सो ऽधिकरणे भवति। चकाराद् यथाप्राप्तं च। ध्रौव्यार्थेभ्यः कर्तृभावाधिकरणेषु, गत्यर्थेभ्यः कर्तृकर्मभावाधिकरनेषु, प्रत्यवसानार्थेभ्यः कर्मभावाधिकरणेसु। भ्रौव्यार्थेभ्यः तावत् आसितो देवदत्तः, आसितं तेन, इदम् एषाम् आसितम्। गत्यर्थेभ्यः यातो देवदत्तो ग्रामम्, यातो देवदत्तेन ग्रामः, यातं देवदत्तेन, इदम् एषां यातम्। प्रत्यवसानार्थेभ्यः भुक्तः ओदनो देवदत्तेन, देवदत्तेन भुक्तम्, इदम् एषां भुक्तम्। कथं भुक्ता ब्राह्मणाः, पीता गावः इति। अकारो मत्वर्थीयः, भुक्तम् एषाम् अस्ति, पीतम् एषाम् अस्ति इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

890 क्तोऽधिकरणे च। ध्रौव्यं , गतिः, प्रत्यवसानं च अर्थो येषामिति विग्रहः। ध्रौव्यार्थेभ्यो, गत्यर्थेभ्यः, प्रत्यवसानार्थेभ्यश्चेति यावत्। चाद्यथाप्राप्तमिति। कर्मकर्तृभावेष्वपि यथासंभवमित्यर्थ-। ध्रौव्यमित्यस्य विवरणं - स्थैर्यमिति। स्थिरीभवनम्। उपवेशनशयनादिक्रियेति यावत्। मुकुन्दस्यासितमिदमिति। श्लोकोऽयम्। आस्यते अस्मिन्नित्यासितम्। आसनमित्यर्थः। ध्रौव्यार्थस्योदाहरणमिदम्। इदं यातं रमापतेरिति। गत्यर्थस्योदाहरणम्। यायते गम्यते अस्मिन्निति यातं, मार्गं इत्यर्थः। भुक्तमेतदनन्तरस्येति। भुज्यते अस्मिन्निति भुक्तम्। भोजनस्थानमित्यर्थः। `अधिकरणवाचिनश्चे'ति त्रिष्वपि कर्तरि षष्ठी। पक्षे इति। आधिकरणे प्रत्ययाऽभावपक्षे इत्यर्थः। आसेरकर्मकत्वादिति। ततश्च न कर्मणि क्त इत्यर्थः। आसितो मुकुन्द इति। आसितवानित्यर्थः। आसितं तेनेति। भावे उदाहरणम्। गत्यर्थेभ्य इति। तेषां सकर्मकतया कर्तरि कर्मणि च क्तः, न तु भावे इत्यर्थः, `लः कर्मणि चे'त्यत्राऽदर्शनादिति भावः। भुजेः कर्मणीति। भक्षणार्थात्कर्मणि क्तः, न तु भावे, सकर्मकेभ्यो भावे प्रत्ययस्य `लः कर्मणी'त्यत्राऽदर्शनात्। नापि प्रत्यवसानार्थेभ्यः कर्तरि, अनभिधानादित्यर्थः। कथमिति। भुजेः कर्तरि क्ताऽभावस्योक्तत्वादिति भावः। समाधत्ते– भुक्तमस्त्येषामिति। अत् गत्यर्थेभ्यो भावेऽपि क्तप्रत्ययोऽस्त्येव , अविशेषात्, `अजर्यं सङ्गत'मिति सूत्रे `अनेकमन्यपदार्थेट इति सूत्रे च भाष्ये गत्यर्थेभ्यो भावे क्तप्रत्ययस्य अभ्युपगमाच्चेति शब्देन्दुशेखरे विस्तरः। इत्यधिकृत्येति। `वर्तमाने ल'डित्यतो मण्डूकप्लुत्या अनुवर्तमान इत्यर्थः, चानशादीनां सर्वकालतायाः `भूते' इति सूत्र भाष्ये उक्तत्वादित्याहुः।

तत्त्वबोधिनी

732 मुकुन्दस्येति। आस्यतेऽस्मिन्नित्यासितम्। आसनमित्यर्थः। यायतेऽस्मिन्निति यानं मार्गः। भुज्यतेऽस्मिन्निति भुक्तं। भोजनमित्यर्थः। त्रिष्वपि `अधिकरणवाचिनश्चे'ति कर्तरि षष्ठी।

Satishji's सूत्र-सूचिः

TBD.