TBD.
यकारादौ क्ङिति प्रत्यये परतो जनसनखनाम् आकार आदेशो भवति विभाषा। जायते, जन्यते। जाजायते, जञ्जन्यते। सायते, सन्यते। सासायते, संसन्यते। खायते, खन्यते। चाखायते, चङ्खन्यते। जनेः श्यनि ज्ञाजनोर् जा 7-3-79 इति नित्यं जादेशो भवति।
TBD.
678 जनसनखनामात्वं वा यादौ क्ङिति. सायात्, सन्यात्..
159 आशीर्लिङि विशेषमाह– ये विभाषा। `जनसनखनां सञ्झलो'रित्यतो जनसनखनाभित्यनुवर्तते। अनुदात्तोपदेशेत्यतः क्ङितीति। `ये' इति तद्विशेषणम्। अकार उच्चारणार्थः। तदादिविदिः। `विड्वनोरनुनासिकस्या'दित्यत आदित्यनुवर्तते। तदाह– जनसनखनामित्यादिना। सायादिति। नकारस्य आत्वे सवर्णदीर्घः। द्रम हम्म। आद्योऽदुपधः। न वृद्धिरिति। `अद्रमी'दित्यत्र हलन्तलक्षणायां वृद्धौ `नेटी'ति निषिद्धायां , `ह्म्यन्ते'त्यतोऽतो हलादेरिति वृद्धिर्नेत्यर्थः। जहम्मेति। अभ्यासचुत्वेन हस्य झः। तस्य `अभ्यासे चर्चे'त्यनेन जः। मिमीमेति। मीमृधातोर्णलि द्वित्वे अभ्यासह्यस्वः। अयं शब्दे चेति। मीमृधातुरित्यर्थः।
133 गत्यादिष्विति। गतिशब्दसंभवक्तिष्वित्यर्थः। मीमृ। ऋदित्फलं तु `नाग्लोपी'ति निषेधः। अमिमीमत्।
वृत्तिः जनसनखनामात्वं वा यादौ क्ङिति । When followed by a कित् or ङित् affix beginning with a यकारः, a अङ्गम् consisting of the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४, जनँ जनने ३. २५), √सन् (षनँ सम्भक्तौ १. ५३५, षनुँ दाने ८. २) or √खन् (खनुँ अवदारणे १. १०२०) optionally takes आकारः as the substitute. Note: As per the परिभाषा-सूत्रम् 1-1-52 only the ending letter of the अङ्गम् is replaced by a आकारः।
उदाहरणम् – पुनः पुनर्भृशं वा जायते = जाजायते/जंजन्यते/जञ्जन्यते – is a frequentative/intensive form derived from √जन् (जनीँ प्रादुर्भावे ४. ४४, जनँ जनने ३. २५).
The विवक्षा is लँट्, कर्तरि, यङन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
जन् + यङ् 3-1-22
= जन् + य 1-3-3, 1-3-9
= ज आ + य 6-4-43, 1-1-52
= जा + य 6-1-101
= जाय् जाय 6-1-9
= जा जाय 7-4-60
= ज जाय 7-4-59
= जा जाय 7-4-83
= जाजाय
“जाजाय” gets धातु-सञ्ज्ञा by 3-1-32
When the optional आकारादेशः is not done
जन् + यङ् 3-1-22
= जन् + य 1-3-3, 1-3-9
= जन्य् जन्य 6-1-9
= ज जन्य 7-4-60
= जंजन्य 7-4-85, 1-1-46. Note: नुकानुस्वारो लक्ष्यते।
Note: 7-4-83 does not apply here because the कित् augment “नुक्” has been added to the अभ्यासः।
= जंजन्य/जञ्जन्य । 8-4-59. Note: वार्तिकम् under 7-4-85, पदान्तवच्चेति वक्तव्यम् lets us apply 8-4-59 here.
“जंजन्य/जञ्जन्य” gets धातु-सञ्ज्ञा by 3-1-32
Note: ङिदन्तत्वादात्मनेपदम् । Since a यङन्त-धातुः ends in the affix “यङ्” which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् a यङन्त-धातुः takes आत्मनेपद-प्रत्ययाः।
जाजाय/जंजन्य/जञ्जन्य + लँट् 3-2-123 = जाजाय/जंजन्य/जञ्जन्य + त 1-3-12 = जाजायते/जंजन्यते/जञ्जन्यते