Table of Contents

<<8-2-56 —- 8-2-58>>

8-2-57 न ध्याख्यापृ\उ0304मूर्च्छिमदाम्

प्रथमावृत्तिः

TBD.

काशिका

ध्या ख्या पृ\उ0304 मूर्च्छि मद इत्येतेषां निष्ठातकारस्य नकारादेशो न भवति। ध्यातः। ध्यातवान्। ख्यातः। ख्यातवान्। पूर्तः। पूर्तवान्। मूर्तः। मूर्तवान्। मत्तः। मत्तवान्। रदाभ्याम्, संयोगादेः इति च प्राप्तः प्रतिषिध्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

846 न ध्याख्या। पञ्चम्यर्थे षष्ठी। तदाह– एभ्य इति। ध्यात इति। ध्यैधातोः क्तः। `आदेचः' इत्यात्वम्। अत्र `संयोगादेरातः' इति प्राप्तं नत्वं न। ख्यात इति। ख्याञादेशपक्षे यण्वत्त्वात् `संयोगादेरातः' इति प्राप्तं नत्वं न। ख्यादेशस्य शस्य यत्वे तु यस् णत्वप्रकरणगतस्याऽसिद्धत्वाद्यण्वत्त्वाऽभावात् `संयोगादेरातः' इति नत्वस्य न प्रसक्तिः। स्वतः सिद्धख्याधातोस्तु आद्र्धधातुके प्रयोगो नाऽस्त्येवेति ख्याग्रहणं व्यर्थमेव। पूर्त इति। पृ?धातोः क्तः। `श्र्युकः किती'ति नेट्। `उदोष्ठ\उfffद्पूर्वस्ये'ति उत्त्वं,रपरत्वम्। इह `रदाभ्या'मिति प्राप्तं नत्वं न। मुर्छाधातोः क्ते आह–राल्लोप इति। छस्य लोप इति भावः। मूर्त इति। `आदितश्चे'ति नेट्। छलोपे `रदाभ्या'मिति प्राप्तं नत्वं न। `हलि चे'ति दीर्घः। मत्त इति। `मदी हर्षग्लेपनयोः' अस्मात् क्तः। `\उfffदाईदितः' इति नेट्। अत्र `रदाभ्या'मिति प्राप्तं नत्वं न।

तत्त्वबोधिनी

693 न ध्या। ध्यै चिन्तायाम्। ख्या प्रकथने। प पालनपूरणयोः। मुच्र्छा मोहसमुच्छ्राययोः। मदी हर्षे। पूर्त इति। `श्र्युकः किती'ति इण्निषेधः। छलोपविधिं स्मारयति—राल्लोपैति। मूर्तैति। `आदितश्चे'ति नेट्। मत्त इति। `\उfffदाईदितः' इति नेट्।

Satishji's सूत्र-सूचिः

Video

वृत्तिः एभ्यो निष्‍ठातस्‍य नत्वं न । When following the verbal root √ध्यै (ध्यै चिन्तायाम् १. १०५६) or √ख्या (ख्या प्रकथने २. ५५) or √पॄ (पॄ पालनपूरणयोः ३. ४) or √मूर्च्छ् (मूर्च्छाँ मोहनसमुच्छ्राययोः १. २४०) or √मद् (मदीँ हर्षे ४. १०५), the तकार: of a निष्ठा affix (ref. 1-1-26) is not replaced by a नकार:।

उदाहरणम् – प्रातिपदिकम् “ध्यात” derived from the verbal root √ध्यै (ध्यै चिन्तायाम् १. १०५६).

ध्या + क्त 6-1-45, 3-2-102
= ध्या + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35 and 8-2-57 stops 8-2-43.
= ध्यात । “ध्यात” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.