Table of Contents

<<6-4-169 —- 6-4-171>>

6-4-170 न मपूर्वो ऽपत्ये ऽवर्मणः

प्रथमावृत्तिः

TBD.

काशिका

मपूर्वः अनवर्मणो ऽणि परतो ऽपत्ये ऽर्थे न प्रकृत्या भवति। सुषाम्णो ऽपत्यं सौषामः। चान्द्रसामः। मपूर्वः इति किम्? सौत्वनः। अपत्ये इति किम्? चर्मणा परिवृतो रथः चार्मणः। अवर्मनः इति किम्? चक्रवर्मणो ऽपत्यं चाक्रवर्मणः। मपूर्वप्रतिषेधे वा हितनाम्न इति वक्तव्यम्। हितनाम्नो ऽपत्यं हैतनामः, हैतनामनः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1141 न मपूर्वो।ञपत्येऽवर्मणः। भाद्रसाम इति। भद्रसाम्नो।ञपत्यमिति विग्रहः। अणि टिलोपः। अनो मपूर्वत्वान्न प्रकृतिभावः। सौत्वन इति। सुत्वनोऽपत्यमिति विग्रहः। मपूर्वत्वाऽभावात्प्रकृतिभावः। चार्मण इति। `परिवृतो रथः' इत्यणि टिलोपः। अण आपत्यत्वाऽभावात्प्रकृतिभावः। प्रतिषेध'इति शेषः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.