TBD.
एकाच् यद् भसंज्ञाकं तदिष्ठेमेयस्सु परतः प्रकृत्या भवति। स्रग्विन्नित्येतस्य विन्नन्तस्य स्रजिष्ठः, स्रजीयान्, स्रजयति। स्रुग्वदित्येतस्य मत्वन्तस्य स्रुचिष्थः, स्रुचीयान्, स्रुचयति। एकाचिति किम्? वसुमतित्येतस्य वसिष्ठः, वसीयान्। प्रकृत्या ऽके राजन्यमनुष्ययुवानः। अके प्रत्यये परतो राजन्य मनुष्य युवनित्येते प्रकृत्या भवन्ति। राजन्यानां समूहो राजन्यकम्। मनुष्याणां समूहो मानुष्यकम्। आपत्यस्य च तद्धिते ऽनाति 6-4-151 इति यलोपः प्रकृतिभावेन न भवति। यूनो भावः यौवनिका। मनोज्ञादित्वाद् वुञ्। तस्य नस् तद्धिते 6-4-144 इति टिलोपो न भवति।
TBD.
1227 इष्ठादिष्वेकाच् प्रकृत्या स्यात्. श्रेष्ठः, श्रेयान्..
प्रकृत्यैकाच्। एकोऽच् यस्येति बहुव्रीहिः। इष्ठादिष्विति। `तुरि,?ठेमेयःसु' इत्यत तदनुवृत्तेरिति भावः। `अल्लोपोऽनः,' `नस्तद्धिते'`यस्येति च,' `टे'रित्यादेरेतत्प्रकरणस्थलसोपस्यायं प्रकृतिभाव इति भाष्ये स्पष्टम्। श्रेष्ठः। श्रेयानिति। अयमनयोरतिशयेन प्रशस्त इत्यर्थः।
1506 श्रेष्ठ इति। प्रकृतिभावादिह `टे'रिति लोपो `यस्ये'ति लोपश्च न भवति। ज्यादादी। ज्यादुत्तरस्य ईयसुन आकारादेशः श्यात्।
TBD.