TBD.
आपत्ययकारस्य हलः उत्तरस्य तद्धिते अनाकारादौ लोपो भवति। गार्ग्याणां समूहो गार्गकम्। वात्सकम्। आपत्यस्य इति किम्? साङ्काश्यकः। काम्पिल्यकः। तद्धितग्रहणं ईत्यनापत्यस्य अपि लोपार्थम्। सौमी इष्टिः। अनाति इति किम्? गार्ग्यायणः। वात्स्यायनः। हलः इत्येव, कारिकेयस्य अपत्यं कारिकेयिः।
TBD.
–
1065 तथाच गाग्र्य-ईय इति स्थिते `यस्येति चे'ति यञोऽकारस्य लोपे गाग्र्य-ईय इति स्थिते परिशिष्टस्य यञो यकारस्य लोपमाह–आपत्यस्य च। `अनाती'ति च्छेदः। `ढे लोपोऽकद्व्राः' इत्यतो लोप इत्यनुवर्तते। `सूर्यतिष्ये'त्यतो `य' इति षष्ठ\उfffद्न्तमनुवर्तते। `हलस्तद्धितस्येत्यतो हल इति पञ्चम्यन्तमनुवर्तते। तदाह- -हलः परस्यापत्ययकारस्येति। अपत्यार्थकयकारस्येत्यर्थः। यञो लुकि तु आदिवृद्धिर्न स्यादिति भावः। अल्लोपस्याभीयत्वेऽपि नाऽसिद्धत्वम्, आरम्भसामथ्र्यात्। `हलस्तद्धितस्ये'ति यलोपस्यात्र प्रसक्तावपि न्याय्यत्वादिदमेव भवति। गर्गीयमिति। `तस्मै हित'मिति गाग्र्यशब्दाच्छः। तस्य प्राग्दीव्यतीयत्वाऽभावात् तस्मिन्परे `यञञोश्चे'ति यञो लुग्भवत्येवेति नादिवृद्दिरिति भावः। गर्गरूप्यमिति। `हेतुमनुष्येभ्यः' इति रूप्यप्रत्ययः। तस्य प्राग्दीव्यतीयत्वेप्यजादित्वाऽभावात्तस्मिन्परे यञोऽलुङ्न। यदि तु `अजादौ प्राग्दीव्यतीये परे' इति व्याख्यायेत, तर्हि गाग्र्यशब्दाच्छे तस्य ईयादेशे कृतेऽलुग्विधिः प्रवर्तेत, नतु ततः प्राक्। एवंच छप्रवृत्तेः प्रागेव यञि अलुग्विधेः प्रवृत्तौ, यञन्तस्य वृद्धत्वाच्छो निर्बाधः। यलोपविधौ–आपत्यस्येति किम् ?। गार्ग्ये। गाग्र्ययोः। अनातीति किम् ? गाग्र्यायणः।
892 गर्गाणामिति। अपत्यबहुत्कविवक्षायां `यञञोश्चे'ति लुक्, स चाऽजादिप्रत्यये चिकर्षिते अनेन प्रतिषिद्ध इति गाग्र्यशब्दाच्छे कृते तस्य ईयादेशः। `यस्येति चे'त्यकारलोपे यलोपार्थमाह—आपत्यस्य चेति। `ढे लोपो ऽकद्र्वाः' इत्यतो `लोप' इत्यनुवर्तते, `सूर्यतिष्ये'त्यतो `य' इति, `हलस्तद्धितस्ये'त्यतो `हल'इति च। तदाह–हलः परस्येत्यादि। आभीयत्वेऽप्यल्लोपो नाऽसिद्धः, आरम्भसमाथ्र्यात्। अत एवोपधाया इति नानुवर्तितमिति व्याचष्टे—यकारस्येति। आपत्यस्येति किम्?। सङ्काश्यकः। काम्पिल्यकः। `संकाशादिभ्यो ण्यः'। ततो `धन्वयोपधा'दिति वुञ्। तद्धिते इति किम्?। गर्ग्ये। गार्ग्यांयोः। अनातीति किम्?। गग्र्यायणः। गर्गीयमिति। `तस्मै हित'मिति छः।
TBD.