Table of Contents

<<6-4-15 —- 6-4-17>>

6-4-16 अज्झनगमां सनि

प्रथमावृत्तिः

TBD.

काशिका

अजन्तानाम् अङ्गानं हनिगम्योश्च सनि झलादौ परे दीर्घो भवति। अजन्तानाम् विवीषति। तुष्टूषति। चिकीर्षति। जिहीर्षति। हन् जिघांसति। गम् अधिजिगांसते। गमेरिङादेशस्य इति वक्तव्यम्। इह मा भूत् सञ्जिगंसते वत्सो मात्र इति। स्वर्गं लोकं समजिगांसतिति छन्दसि यदनिङादेशस्य अपि दीर्घत्वं दृश्यते, तदन्येषाम् अपि दृश्यते 6-3-137 इत्यनेन भवति। अथ वा इह अज्ग्रहणं न कर्तव्यम्। सनि दीर्घो भवति इत्येतावदेव सूत्रं कर्तव्यम्। तत्राचा गृह्यमाणस्य विशेषणे सति सिद्धम् अजन्तस्य दीर्घत्वम्? तत् क्रियते प्रवृत्तिभेदेन गमेरपि विशेषणार्थम्, अजन्तस्य अङ्गस्य दीर्घो भवति, अजादेशस्य गमेः इति। ततो न वक्तव्यम् इदं गमेरिङादेशस्य इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

711 अजन्तानां हन्तेरजादेशगमेश्च दीर्घो झलादौ सनि..

बालमनोरमा

441 अज्झनगमां सनि। अच्, हन्, गम्– एषां द्वन्द्वः। `नोपधायाः' इत्यत उपधाया इत्यनुवृत्तं हनगमोरन्वेति, न त्वजन्ते, असंभवात्। अङ्गस्येत्यधिकृतम्। अचस्तद्विशेषणत्वात्तदन्तविधिः। गमधातुरिह अजादेश एव विवक्षित इति प्रकृतसूत्रभाष्ये स्पष्टम्। `ढ्रलोपे पूर्वस्ये'त्यतो दीर्घ इत्यनुवर्तते। तदाह- - अजन्तानामित्यादिना। झलादौ सनीति। `च्छ्वोः शू'डिति सूत्रभाष्ये `अज्झनगमा'मित्यत्र सनं झला विशेषयिष्याम् इत्युक्तेरिति भावः। अथ जिधातोरभ्यासात्परस्य कुत्वविधिं स्मारयति– सन्लिटोर्जेरिति। जिगीषतीति। जिगीषतीति। जेर्दीर्घे अभ्यासात्परस्य कुत्वम्। अथ चिञ्धातोरभ्यासात्परस्य कुत्वविकल्पं स्मारयति– विभाषा चेरिति। चिकीषति- चिचीषतीति। अजन्तत्वाद्दीर्घः। जिघांसतीति। हनेः सनि `अज्झने'त्यकारस्य दीर्घः, न त्वन्त्यस्य नकारस्य, दीर्घश्रुत्या `अचट इत्युपस्थितेः। द्वित्वम्। `अभ्यासाच्चे'ति कुत्वम्। `नश्चे'त्यनुस्वारः।

तत्त्वबोधिनी

385 अज्झगमाम्। गमः सामान्येन ग्रहमे गम्लृ गतावित्यस्मात्संजिगंसते इत्यत्रातिप्रसङ्गः स्यादतः `सनि च', `इङश्चे'ति सूत्राभ्यां विहितस्येणिङोरादेशस्य, `इण्वदिकः'इति इक आदेशस्य च ग्रहणमित्याशयेनाह- - अजादेशगमेरिति। एतच्च सूत्रेऽज्ग्रहणाल्लभ्यते। तथाहि– इह `सनी'त्येव सूत्रं कर्तव्यं, दीर्घश्रुत्योपस्थितेनाऽच इत्यनेनाङ्गस्य विशेषणादजन्ताङ्गस्य दीर्घः। चिचीषति। ततो `हनिगम्यो'रित्यपरं कर्तव्यम्। एवं चाऽज्ग्रहणमतिरित्यमानं प्रवृत्तिभेदेन गमेर्विशेषणार्थम्। अजन्तस्य दीर्गो भवति, अजादेशगमेश्चेति। झलादाविति किम् ?। जिगमिषति। `गमेरिट् परस्मैपदेषु' इति इट्।

Satishji's सूत्र-सूचिः

वृत्तिः अजन्तानां हन्तेरजादेशगमेश्च दीर्घो झलादौ सनि । When the affix सन् beginning with a झल् letter follows, there is an elongation of a verbal root which ends in a vowel, as well as of the verbal root √हन् (हनँ हिंसागत्योः २. २) and √गम् (“गम्”-आदेशः which comes in place of √इ (इङ् अध्ययने | नित्यमधिपूर्वः २. ४१) by 2-4-48 इङश्च). Note: In this सूत्रम् “गम्” does not refer to √गम् (गमॢँ गतौ १. ११३७).

Example continued from 2-4-48
अधि गम् + स
= अधि गाम् + स 6-4-16
= अधि गाम् गाम् + स 6-1-9
= अधि गा गाम् + स 7-4-60
= अधि ग गाम् + स 7-4-59
= अधि ज गाम् + स 7-4-62
= अधि जि गाम् + स 7-4-79
= अधिजिगांस 8-3-24

“अधिजिगांस” has धातु-सञ्ज्ञा by 3-1-32

अधिजिगांस + लँट् 3-2-123 = अधिजिगांसते 1-3-62, 1-3-12