Table of Contents

<<6-3-136 —- 6-3-138>>

6-3-137 अन्येषाम् अपि दृश्यते

प्रथमावृत्तिः

TBD.

काशिका

अन्येषाम् अपि दीर्घो दृश्यते, स शिष्टप्रयोगादनुगन्तव्यः। यस्य दीर्घत्वं विहितं, दृश्यते च प्रयोगे, तदनेन कर्तव्यम्। केशाकेशि। कचाकचि। जलाषाट्। नारकः पूरुषः। शुनो दन्तदंष्ट्राकर्णकुन्दवराहपुच्छपदेषु। श्वादन्तः। श्वादंष्ट्रः। श्वाकर्णः। श्वाकुन्दः। श्वावराहः। श्वापुच्छः। श्वापदः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

838 अन्येषामपि दृश्यते। अनुवर्तते इति। ढ्रलोपे इत्यत' इति शेषः। `नहिवृतिवृषी'त्यादिपूर्वसूत्रोक्तादन्येषामपि दीर्घो दृश्यत इत्यर्थः। अतिप्रसङ्गमाशङ्क्याह–कर्मव्यतिहारे बहुव्रीहौ पूर्वपदान्तस्य दीर्घ इति। `बहुव्रीहौ चेत् कर्मव्यतिहारे एव पूर्वपदान्तस्यैव दीर्घ' इत्यर्थः। तेन `तुराषा'डित्यादौ दीर्गो निर्बाधः। दृशिग्रहणादयमर्थो लभ्यते। वक्ष्यत इति। `इच्कर्मव्यतिहारे इति सूत्रेणे'ति शेषः। तिष्ठधुप्रभृतिष्विति। वृत्तिग्रन्थ एवात्र प्रमाणम्। अव्ययीभावत्वमिति। तत्र `अव्ययीभावः' इत्यनुवृत्तेरिति भावः। अव्ययत्वमिति। `अव्ययीभावश्चे इत्यनेने'ति शेषः। `अव्ययादाप्सुपः' इति सुब्लुक् तत्फलमिति भावः। गृहीत्वेति। `परस्पर'मिति शेषः। न च केशग्रहणस्य पुरुषकर्तृकत्वात् प्रवृत्तेश्च युद्धकर्तृकत्वात्समानकर्तृकत्वाऽभावात्कथमिह क्त्वाप्रत्यय इति वाच्यं, गृहीत्वेत्यनन्तरं `स्थितयो'रित्यद्याहारात्। ततश्च अस्य केशेषु केशेष्वित्यनयोग्र्रहणाद्यन्तर्भावेन वृत्तिघटकयोः समासे सति सुब्लुक्। पूर्वपदस्य दीर्घः। इच्समासान्तः। `यस्येति चे'त्यकारलोपः। अव्ययत्वात्सुब्लुगिति भावः। अन्यपदार्थवृत्तित्वेऽपि एकसेषापवादोऽयं बहुव्रीहिसमासः, अप्रथमान्तार्थश्च, दण्डैश्चेति। अस्य डण्डैः सः, तस्य दण्डैरयमित्येव परस्परं प्रह्मत्य स्तितयोरिदं युद्धं प्रवृत्तमिति विग्रहार्थः। दण्डादण्डीति। दण्डैर्दण्डैरित्यनयोः प्रहरणाद्यन्तर्भावेन समासघटकयोः समासे सति सुब्लुक्, पूर्वपदस्य दीर्घः, इच्, `यस्येति च' इति अकारलोपः। अव्ययत्वात्सुब्लुक्। भुष्टीमुष्टीति। अस्य मुष्टिभिः सः, तस्य मुष्टिभिश्चायमित्येवं परस्परं प्रह्मत्य स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहः। मुष्ट\उfffदा मुष्ट\उfffदा इत्यनयोः समासे सति सुब्लुगादि पूर्ववत्। `मुष्टामुष्टी'ति पूर्वपदान्तस्य आत्वमपाणिनीयमेव।\र्\नोर्गुणः। ओरित्युकारात्षष्ठ\उfffदेकवचनम्। तेन भस्येत्यधिकृतं विशेष्यते। तदन्तविधिः। `नस्तद्धिते' इत्यनुवर्तते। तदाह–उवर्णान्तस्येति। बाहूबाहवीति। बाहौ बाहौ च परस्परं गृहीत्वा स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहः। समासः, सुब्लुक्, पूर्वपदस्य दीर्घः , इच्। `यस्येति चे'ति बाधित्वा ओर्गुणः, अवादेशः। अव्ययत्वात्सुपो लुक्। ननु गुण उकारस्थाने भवन् स्थासाम्यादोकार एव भवति, ततश्च लाघवात् `ओरो'रित्येव सिद्धे `गुण' इति गुरुनिर्देशो व्यर्थं इत्यत आह–ओरोदिति। नचैवमपीह तद्धितसंज्ञापूर्वकत्वं दुर्वारमिति वाच्यं, विधेयसमर्पबकं पदं यत्र संज्ञारूपं स एव संज्ञापूर्वकविधिरित्यभ्युपगमात्। नच `ओ'दिति तपरस्तत्कालस्य संज्ञेति वाच्यं, विधायमानत्वादेव तत्कालत्वसिद्ध्या तकारस्य उच्चारणार्थत्वात्। स्वायम्भुवमिति। स्वयम्भुवोऽपत्यमित्यर्थे अण्, स्वायंभुवः। संज्ञापूर्वकत्वेनानित्यत्वादोर्गुणाऽभावे उवङ्, आदिवृद्धिरिति भावः। `स्वायम्भुव'मिति पाठे तस्येदमित्यण्। हलेन मुसलेनेति। अत्र असरूपत्वाद्धलामुसलीति न भवतीति भावः।

तत्त्वबोधिनी

733 अन्येषामपि दृश्यते। अत्र प्राचा `दृशिग्रहणात्कर्मव्यतिहारे बहुव्रीहौ पूर्वपदान्तस्य दीर्घत्वम्, आत्वं वाऽनचि' इत्युक्तम्। तत्र `आत्वं वा'इत्यपाणिनीयम्। अतएव मुष्टामुष्टीत्युदाहरणमप्यप्रामाणिकमेव। एतच्च मनोरमायां स्पष्टम्।

Satishji's सूत्र-सूचिः

TBD.