Table of Contents

<<6-4-16 —- 6-4-18>>

6-4-17 तनोतेर् विभाषा

प्रथमावृत्तिः

TBD.

काशिका

तनोतेरङ्गस्य सनि झलादौ विभाषा दीर्घो भवति। तितांसति, तितंसति। झलि इत्येव, तितनिषति। सनीवन्तर्ध इत्यत्र तनोतेरुपसङ्ख्यानादिडागमो भवति विकल्पेन।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

450 तनोतेर्विभाषा। उपधाया दीर्घ इति। `नोपधायायाः' इत्यतो `ढ्रलोपे' इत्यतश्च तदनुवृत्तेरिति भावः। झलादौ सनीति। `अज्झने'त्यतस्तदनुवर्तते। तत्र झलादाविति भाष्ये स्थितमिति भावः। आशङ्कायामिति। आशङ्काविषयक्रियावृत्तेर्धातोः स्वार्थे सन्नित्यर्थः। \उfffदाआ मुमूर्षतीति। शङ्कितमरणो भवतीत्यर्थः। कूलं पिपतिषतीति। शङ्कितपतनं भवतीत्यर्थः। `तनिपती'ति इट्पक्षे रूपम्। पतेःसनि इडभावपक्षे त्वाह–

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.