Table of Contents

<<6-4-151 —- 6-4-153>>

6-4-152 क्यच्व्योश् च

प्रथमावृत्तिः

TBD.

काशिका

क्य च्वि इत्येतयोश्च परतः आपत्ययकारस्य हल उत्तरस्य लोपो भवति। वात्सीयति। गार्गीयति। वात्सीयते। गार्गीयते। च्वौ गार्गीभूतः। वात्सीभूतः। आपत्यस्य इत्येव, साङ्काश्यायते। साङ्काश्यभूतः। हलः इत्येव, कारिकेयीयति। कारिकेयीभूतः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

गार्गीभवतीति वक्ष्यन्नाह–क्यच्व्योश्च। `अल्लोपोऽनः' इत्यस्माल्लोप इति, `हलस्तद्धितस्ये'त्यस्माद्धल इति , `सूर्यतिष्ये' त्यतो य इति, `आपत्यस्य चे'त्यस्मादापत्यस्येति चानुवर्तते। तदाह–हलः परस्येति। गार्गीभवतीति। आगाग्र्यो गार्ग्यः संपद्यमानो भवतीत्यर्थः। यञन्ताच्च्वौ यकारस्य लोपः। वेर्लोपः। यकारस्य तु `आपत्यस्य चे'ति लोपो न सम्भवति, ईकारेण व्यवधानात्। `हलस्तद्धितस्ये'त्यपि न सम्भवति, तस्य ईति अर्थवत्येव विधानात्। अतो वचनमिति भावः।

तत्त्वबोधिनी

1577 गार्गीभवतीति। इह यञन्तात्सुपि ततः च्विप्रत्यये कृते `आपत्यस्य च तद्धितेऽनाती'ति यलोपो न भवति, ईकारेण व्यवधानादिति बोध्यम्।

Satishji's सूत्र-सूचिः

TBD.