Table of Contents

<<4-2-90 —- 4-2-92>>

4-2-91 नडादीनां कुक् च

प्रथमावृत्तिः

TBD.

काशिका

नड इत्येवम् आदीनां कुगागमो भवति, छश्च प्रत्ययश्चातुरर्थिकः। यथासम्भवमर्थसम्बन्धः। नडकीयम्। प्लक्षदीयम्। नड। प्लक्ष। बिल्व। वेणु। वेत्र। वेतस। तृण। इक्षु। काष्ठ। कपोत। क्रुञ्चायां ह्रस्वत्वं च। तक्षन्नलोपश्च।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1291 नडादीनां कुक्च। नडादिभ्यछः स्याच्चातुरर्थिकः, प्रकृतेः कुक्च। क्रुञ्चा ह्यस्वत्वं चेति। नडादिगणसूत्रम्। क्रुञ्चाशब्दाच्छः, प्रकृतेः कुक्, आकारस्य ह्यस्वश्च। क्रुञ्चकीय इति क्रुञ्चा अस्मिन्सन्तीत्यादिविग्रहः। तक्षन्नलोपश्च। इदमपि गमसूत्रम्। तक्षन्शब्दाच्छः कुक्, नकारस्य लोपश्च।

तत्त्वबोधिनी

340 नडादीनां। नड प्लक्ष बिल्व वेणु वेत्र वेतसादयो नडादयः। नडाद्यन्तर्गणसूत्रमाह—क्रुञ्चेति एवं तक्षन्नित्यपि। उभयत्रापि षष्ठ्याः सौत्रो लुक्। `ढे लोप 'इत्यतो लोप इत्यनुवर्तमाने लुग्?ग्रहणं व्यर्थमित्या शङ्क्याह— सर्वलोपार्थमिति। यमात्रस्येति। न च `आदेः परस्य'इतीकारस्य भाव्यमिति वाच्यं, `सूर्यतिष्ये' त्यतो यकारसंबद्धस्यैव लोपस्याऽनुवर्ततनादिति भावः। \र्\निति तत्त्वबोधिन्यां चातुरर्थिकाः।

Satishji's सूत्र-सूचिः

TBD.