Table of Contents

<<6-1-168 —- 6-1-170>>

6-1-169 अन्तौदात्तादुत्तरपदादन्यतरस्याम् अनित्यसमासे

प्रथमावृत्तिः

TBD.

काशिका

एकाचः इति वर्तते, तृतीयादिर् विभक्तिरिति च। नित्यशब्दः स्वर्यते, तेन नित्याधिकारविहितः समासः पर्युदस्यते। नित्यसमासादन्यत्रानित्यसमासे यदुत्तरपदम् अन्तोदात्तम् एकाच्च तस्मात् परा तृतीयादिर् विभक्तिरन्यतरस्याम् उदात्ता भवति। परमवाच, परमवाचा। परमवाचे, परमवाचे। परमत्वचा, पर्मत्वचा। परमत्वचे, परमत्वचे। यदा विभक्तिरुदात्ता न भवति, तदा समासान्तोदात्तत्वम् एव। अन्तोदात्तातिति किम्? अवाचा। सुवाचा। सुत्वचा। तत्पुरुषो ऽयम्। तत्र तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमान. अव्ययय 6-2-2. इति पूर्वपदप्रकृतिस्वरः। उत्तरपदग्रहणम् एकाच्त्वेन उत्तरपदं विशेषयितुम्, अन्यथा हि समासविशेषणम् एतत् स्यात्। तत्र शुनः ऊर्क, श्वोर्जा इत्यत्र एव अयं विधिः स्यात्। अनित्यसमासे इति किम्। अग्निचिता। सोमसुता उपपदम् अतिङ् 2-2-19 इत्ययं नित्याधिकारे समासो विधीयते। तत्र गतिकारकौपपदात् कृत् 6-2-139 इत्युत्तरपदप्रकृतिस्वरेन चित्शब्दः उदात्तः। यस् तु विग्रहाभावेन नित्यसमासस् तत्र भवत्येव विकल्पः, अवाचा ब्राह्मणेन, सुबाचा ब्राह्मणेन इति। बहुव्रीहौ नञ्सुभ्याम् 6-2-172 इत्युत्तरपदान्तौदात्तत्वं भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.