TBD.
उवर्णान्तस्य भस्य गुणो भवति तद्धिते परतः। बाभ्रव्यः। माण्डव्यः। शङ्कव्यं दारु। पिचव्यः कार्पासः। कमण्डलव्या मृत्तिका। परशव्यमयः। औपगवः। कापटवः। ओरोतिति वक्तव्ये गुणग्रहणं संज्ञापूर्वको विधिरनित्यो यथा स्यात्, तेन स्वायम्भुवः इति सिद्धं भवति।
TBD.
1051 भिक्षाणां समूहो भैक्षम्. गर्भिणीनां समूहो गार्भिणम्. इह (भस्याढे तद्धिते). इति पुंवद्भावे कृते -.
–
734 ओर्गुणः। तद्धिते किम्?। पठ्वी। वाय्वोः। गुणोक्तिरिति। यद्यपि `ओरो'दिति सूत्रितेऽपि `भस्य'`तद्धिते'इत्येवंरूपसंज्ञापूर्वकत्वामस्त्येव, तथापि विधेयसमर्पकं पदं यत्र संज्ञारूपं स एव संज्ञापूर्वको विधिरिति। भावः। यद्यपि `ओ'दिति तपरस्तत्कालस्य संज्ञैव, तथापि इह तकार उच्चारणार्थः, तपरत्वे फलाऽभावात्। स`ओरो'इत्येव वाऽस्तु। `स्वं रूपं शब्दस्ये ति तु प्रत्याख्यातमिति भावः। स्यादेतत्–तपरस्तत्कालस्य संज्ञा भवतीति `गुरोरनृतः'इति प्लुतनिषेधस्यापि संज्ञापूर्वकत्वेनाऽनित्यत्वात्क्लृ3प्तशिखेत्यत्र प्लुतसिद्धये `ऋलृक् सूत्रे ऋकारात्पृथक् लृकारोपदेशो व्यर्थः। सावण्र्ये सत्यप्युक्तरीत्या लृकारस्य प्लुतसिद्धेरनित्यत्वज्ञापनस्य निष्फलत्वात्। न चैवमपि ऋदिताम्लृदित्कार्यम्लृदितामृदित्कार्यं च वारयितुमनित्य्त्वज्ञापनमावश्यकमिति वाच्यं, राजृभ्राजृग्म्लृशक्लृ इति पृथगनुबन्धकरणसाम्थ्र्यात्, `नाग्लोपिशास्वृदिताम्' `लृदितः परस्मापदेषु' इति पृथगनुवादसामथ्र्याच्च तत्कार्याणामसार्ङ्क्यसिद्धेरिति चेदत्राहुः—`गुरोरनृतः'इत्यनेन ऋद्भिन्नस्य गुरोः प्लुतविधानात् `अनृतः'इत्यतदनूद्यमानगुरुविशेषणत्वेनानुवादरूपमेव, न तु विधेयसमर्पकसंज्ञारूपं पदमिति ऋस्थानिकप्लुतनिषेधस्याऽनित्यत्वाऽसिद्द्यक्लृ3प्तशिखेत्यत्र प्लुतो न सिध्यति, ततश्च तत्सि तत्सिद्द्यथमुक्तज्ञापनायोभयोपदेश आवश्यक इति। अन्ये तु— ऋकारात्पृथग्लृकार उपदेष्टव्य एव, ऋकारोपदेशेन लृकारस्याऽलाभात्। न च `ऋलृवर्णयोर्भिथः सावप्र्य'मिति वचनात्तल्लाभः शङ्क्यः। वार्तिकं दृष्ट्वा सूत्रकृतोऽप्रवृत्तेरित्याहुः।
TBD.