Table of Contents

<<6-4-134 —- 6-4-136>>

6-4-135 षपूर्वहन्धृतराज्ञाम् अणि

प्रथमावृत्तिः

TBD.

काशिका

षकारपूर्वो यः अन् हनः धृतराज्ञश्च तस्य अकारलोपो भवति अणि परतः। औक्ष्णः। ताक्ष्णः। भ्रौणघ्नः। धार्तराज्ञः। षपूर्वहन्धृतराज्ञाम् इति किम्? सामनः। वैमनः। अनिति प्रकृतिभावेन अल्लोपटिलोपौ उभावपि न भवतः। अणि इति किम्? ताक्षण्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1144 ननु प्रकृतिभावादल्लोपो न स्यादत आह–षपूर्वहन्। `अल्लोपोऽनः' इत्यनुवर्तते। `भस्ये'त्यधिकृतं, तदाह–षपूर्व इति। ताक्ष्ण इति। `तक्ष्णोऽण उपसङ्ख्यान'मिति कारिलक्षणण्यस्यापवादोऽण्। ताक्षण्य इति। `सेनान्तलक्षणकारिभ्यश्च' इति ण्यः।

तत्त्वबोधिनी

951 ताक्ष्ण इति। शिवादित्वात्, `तस्येदम्'इति वाऽण्। ताक्ष्ण्य इति। कारिलक्षणोण्यः। कुलात्खः। केवलात्कुलशब्दात् `अपूर्वपदा'दित्यादिना विशेषविहिताभ्यामपि यङ्ङकञ्भ्यां खो न बाध्यते, तद्विधावन्यतरस्याङ्ग्रहणादित्याशयेनाह–।

Satishji's सूत्र-सूचिः

TBD.