Table of Contents

<<6-4-122 —- 6-4-124>>

6-4-123 रधो हिंसायाम्

प्रथमावृत्तिः

TBD.

काशिका

राधः हिंसायामर्थे ऽवर्णस्य एकारः आदेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतः थलि च सेटि। अपरेधतुः। अपरेधुः। अपरेधिथ। हिंसायाम् इति किम्? रराधतुः। रराधुः। रराधिथ। अतः इत्येतदिह उपस्थितं तपरत्वकृतमपास्य कालविशेषम् असम्भवादवर्णमात्रं प्रतिपादयति। अथ वा श्नाभ्यस् तयोरातः 6-4-112 इत्यनुवर्तते इति व्याख्येयम्। एकहल्मध्ये वा यः स स्थानी भविष्यति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

362 राधो हिंसायां। `ध्वसो'रित्यत एदिति, अभ्यासलोप इति चानुवर्तते। `गमहने'त्यतः कितीति, `अत एकहल्मध्ये' इत्यतो लिटीति, `थलि च सेटी'ति सूत्रं चानुवर्तते। तदाह- - एत्त्वेत्यादिना। अपरेधतुरिति। उपसर्गवशादिह हिंसायां वृत्तिः। अन्यत्र रराधतुः। थल्यपि क्रादिनियमान्निट्। `उपदेशेऽत्वतः' इत्यत्र तपरकरणादिह नेण्निषेधः। तदाह— रेधिथेति। राद्धेति। `झषस्तथोः' इति धः।अशू व्याप्ताविति। ऊदित्?तवाद्वेट्। अश्नुते इति। अश्नुवते।संयोगपूर्वकत्वात् `हुश्नुवो'रिति न यण्।

तत्त्वबोधिनी

316 राधो हिंसायाम्। `अत' इत्यनुवर्तमानेऽपि सामथ्र्यादकारमात्रं स्थानित्वेनाश्रीयते।

Satishji's सूत्र-सूचिः

TBD.