Table of Contents

<<6-4-123 —- 6-4-125>>

6-4-124 वा जृ\उ0304भ्रमुत्रसाम्

प्रथमावृत्तिः

TBD.

काशिका

जृ\उ0304 भ्रमु त्रस इत्येतेषाम् अङ्गानाम् अतः स्थाने वा एकार आदेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतः थलि च सेटि। जेरतुः। जेरुः। जेरिथ। जजरतुः। जजरुः। जजरिथ। भ्रेमतुः। भ्रेमुः। भ्रेमिथ। बभ्रमतुः। बभ्रमुः। बभ्रमिथ। त्रेसतुः। त्रेसुः। त्रेसिथ। तत्रसतुः। तत्रसुः। तत्रसिथ।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

634 एषां किति लिटि सेटि थलि च एत्वाभ्यासलोपौ वा. त्रेसतुः, तत्रसतुः. त्रेसिथ, तत्रसिथ. त्रसिता.. शो तनूकरणे.. 5..

बालमनोरमा

193 वा जृ?भ्रसु। `अत एकहल्मध्ये' इत्यतो लिटीति, `थलि च सेटी'ति चानुवर्तते। `ध्वसोरेद्धौ' इत्यत एदिति, `गमहने'त्यतः कितीति च। तदाह–एषामिति। अभ्रमीदिति। `ह्म्यन्ते'ति न वृद्धिः। अक्षारीदिति। `अतो ल्रान्तस्ये'ति वृद्धिः। षह। अपराधे सत्यपि कोपाऽनाविष्करणं मर्षमम्। इडभावे इति। सह्–ता इति स्थिते `हो ढः' इति ढत्वं, `झषस्तथो'रिति तकारस्य धत्वम्। धस्य ष्टुत्वेन ढः। `ढो ढे लोपः' इति पूर्वस्य ढस्य लोप इत्यर्थः। स ढा इति स्थितम्।

तत्त्वबोधिनी

166 वाजृ?भ्रमुत्रसाम्। अप्राप्तविभाषेयम्। अंभ्रमीदिति। मान्तत्वान्न वृद्धिः। अक्षारीदिति। हलन्तलक्षणाया वृद्धेः `नेटी'ति निषेधेऽपि `अतो ल्रान्तस्ये'ति वृद्धिः। षह। अपराधे सत्यपि कोपाऽनाविष्करणं मर्षणम्।

Satishji's सूत्र-सूचिः

वृत्तिः एषां किति लिटि सेटि थलि चात एत्वमभ्यासलोपश्च वा स्याताम्। Optionally, the अकार: of the three verbal roots √जॄ (जॄ वयोहानौ ९. २७), √भ्रम् (भ्रमुँ चलने १. ९८५, भ्रमुँ अनवस्थाने ४. १०२) and √त्रस् (त्रसीँ उद्वेगे ४. ११) takes एकार: as the substitute and simultaneously there is लोप: (elision) of the अभ्यास:, when the प्रत्यय: following is either a -
(i) लिँट् affix which is कित्, or
(ii) “थल्” (मध्यम-पुरुष-एकवचनम्) affix which has a “इट्”-आगम:।

उदाहरणम् – त्रेसुः/तत्रसुः (त्रसीँ उद्वेगे ४. ११, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्)।