Table of Contents

<<6-4-121 —- 6-4-123>>

6-4-122 तृ\उ0304फलभजत्रपश् च

प्रथमावृत्तिः

TBD.

काशिका

तृ\उ0304 फल भज त्रप इत्येतेषाम् अङ्गानाम् अत एकारादेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतः थलि च सेटि। तेरतुः। तेरुः। तेरिथ। फेलतुः। फेलुः। फेलिथ। भेजतुः। भेजुः। भेजिथ। त्रेपे, त्रेपाते, त्रेपिरे। तरतेर् गुणार्थं वचनम्। फलिभजोरादेशाद्यर्थम्। त्रपेरनेकहल्मध्यार्थम्। श्रन्थेश्च इति वक्तव्यम्। श्रेथतुः। श्रेथुः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

544 एषामत एत्त्वमभ्यासलोपश्च स्यात् किति लिटि सेटि थलि च. त्रेपे. त्रपिता, त्रप्ता. त्रपिष्यते, त्रप्स्यते. त्रपताम्. अत्रपत. त्रपेत. त्रपिषीष्ट, त्रप्सीष्ट. अत्रपिष्ट, अत्रप्त. अत्रपिष्यत, अत्रप्स्यत..इत्यात्मनेपदिनः..श्रिञ् सेवायाम्.. 1.. श्रयति, श्रयते. शिश्राय, शिश्रिये. श्रयितासि, श्रयितासे. श्रयिष्यति, श्रयिष्यते. श्रयतु, श्रयताम्. अश्रयत्, अश्रयत. श्रयेत्, श्रयेत. श्रीयात्, श्रयिषीष्ट. चङ्. अशिश्रियत्, अशिश्रियत. अश्रयिष्यत्, अश्रयिष्यत.. भृञ् भरणे.. 2.. भरति, भरते. बभार. बभ्रतुः. बभ्रुः. बभर्थ. बभृव. बभृम. बभ्रे. बभृषे. भर्तासि, भर्तासे. भरिष्यति, भरिष्यते. भरतु, भरताम्. अभरत्, अभरत. भरेत्, भरेत..

बालमनोरमा

144 संयुक्तहल्मध्यस्थत्वादेत्त्वाभ्यासलोपयोरप्राप्तावाह–तृ?फल। `अत एकहल्मध्ये' इत्यतोऽत इति लिटीति चानवर्तते। `ध्वसो'रित्यत एदिति, अभ्यासलोपश्चेति च, `गमहने'त्यस्मात्कितीति, `थलि च सेटी'ति सूत्रं च। तदाह–एषामिति। गुणशब्देन भाविताऽकारवत्त्वाद्वरूपादेशादित्वादेकहल्मध्यस्थत्वाऽभावाच्चाऽप्राप्ते विधिरियम्। आन्ब इति। द्विहल्त्वान्नुट्। ष्टभि स्कभीति। आद्यः षोपदेशः,ष्टुत्वेन तकारस्य टकारनिर्देशेन दन्त्यपरकसादित्वात्। ततः षस्य सत्वे ष्टुत्वस्य निवृत्तिः। तदाह—स्तम्भत् इति। नुम्यनुस्वार इति। इदित्त्वान्नुमि `नश्चापदान्तस्ये'ति तस्यानुस्वारः। `?नुस्वारस्य ययी'ति तस्य परसवर्?णौ मकारः। `ष्टम्भे'त्येव पाठे तु प्रतिपदोक्तत्वात् `उदः स्थे'त्यत्राऽस्यैव ग्रहणं स्यादिति भावः। पूर्वसवर्ण इति। सकारस्य थकारः। तस्य `खरि चे'ति चर्त्वे तकार इत्यर्थः। अत्र यद्वक्तव्यं तदुदः स्थास्तम्भोरित्यत्र हल्सन्धौ प्रपञ्चितम्। विस्तम्भत इति। `सात्पदाद्यो'रिति षत्वनिषेध इति भावः। नन्वेवमपि `स्तम्भे'रिति षत्वं कुतो न स्यादित्यत आह– - स्तम्भेरिति षत्वं तु नेति। कुत इत्यत आह– श्नविधाविति। `स्तन्भुस्तुन्बुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्चे'ति सूत्रे निर्दिष्टस्यैव प्रतिपदोक्तस्य षत्वविधौ ग्रहणादित्यर्थः। नन्वेवं सति `उदः स्थास्तम्भो'रिति पूर्वसवर्णविधावपि सौत्रस्यैव ग्रहणं स्यादित्यत आह–तद्बीजं त्विति। षत्वविधौ सौत्रस्यैव ग्रहणं, पूर्वसवर्णविधौ तु तदन्यस्यापीत्यत्र प्रमाणमित्यर्थः। ननु पूर्वसवर्णविधौ मोपधस्य, षत्वविधौ तु नोपधस्य पाठ इत्यत्र किं प्रमाणमित्यत आह– इति माधव इति। पाणिनिशिष्यपरम्परैव तत्र प्रमाणमिति भावः। लिटि `शपूर्वाः खयः' इति षकारस्य निवृत्तौ ष्टुत्वनिवृत्त्या तकारः शिष्यते। तस्तम्भे। टकार औपदेशिक इति। स्वाभाविक एव टकारो नतु ष्टुत्वसंपन्न इत्यर्थः। तन्मते इति। तथा च षकारस्यापि स्वाभाविकत्वात्? षत्वविधौ स्तन्भेरेव ग्रहणेऽपि षकारो निर्बाध इति भावः। टष्टम्भ इति। `शर्पूर्वा' इतिटकार एव शिष्यत इति भावः। जभी जृभि गात्रविनाम इति। गात्रस्य विनामः = वक्रभावः। आद्य इदित्। द्वितीय इदित्। आद्यस्य इदित्त्वं `\उfffदाईदितो निष्ठाया'मिति इण्निषेधार्थम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

वृत्तिः एषामत एत्त्वमभ्यासलोपश्च स्यात् किति लिटि सेटि थलि च। The अकार: of the four verbal roots √तॄ (तॄ प्लवनतरणयोः १. ११२४), √फल् (ञिफलाँ विशरणे १. ५९४, फलँ निष्पत्तौ १. ६०८), √भज् (भजँ सेवायाम् १. ११५३) and √त्रप् (त्रपूँष् लज्जायाम्) takes एकार: as the substitute and simultaneously there is लोप: (elision) of the अभ्यास:, when the प्रत्यय: following is either a -
(i) लिँट् affix which is कित्, or
(ii) “थल्” (मध्यम-पुरुष-एकवचनम्) affix which has a “इट्”-आगम:।

उदाहरणम् – तेरु: (तॄ प्लवनतरणयोः १. ११२४, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्)।

तॄ + लिँट् 3-2-115
= तॄ + ल् 1-3-2, 1-3-3, 1-3-9
= तॄ + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108
= तॄ + उस् 3-4-82, 1-1-55. 1-3-4 prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
= तॄ तॄ + उस् 6-1-8. Note: As per 1-1-59, we apply 6-1-8 before applying 7-4-11.
= तर् तॄ + उस् 7-4-66, 1-1-51
= त तॄ + उस् 7-4-60
= त तर् + उस् 7-4-11, 1-1-51. Note: 6-4-120 cannot apply here because of the prohibition done by 6-4-126.
= तेर् + उस् 6-4-122. Note: As per 1-2-5 “उस्” is कित् here. This allows 6-4-122 to apply.
= तेरु: 8-2-66, 8-3-15