TBD.
हलन्ताददन्ताच् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति। युधिष्ठिरः। त्वचिसारः। गविष्ठिरः इत्यत्र तु गवियुधिभ्यां स्थिरः 8-3-95 इत्यत एव वचनादलुक्। अदन्तात् अरण्येतिलकाः। अरण्येमाषकाः। वनेकिंशुकाः। वनेहरिद्रकाः। वनेबल्बजकाः। पुर्वाह्णेस्फोटकाः। कूपेपिशाचकाः। हलदन्तादिति किम्? नद्यां कुक्कुटिका नदीकुक्कुटिका। भूम्यां पाशाः भूमिपाशाः। संज्ञायाम् इति किम्? अक्षशौण्डः। हृद्द्युभां ङेः। हृद् दिवित्येतेभ्याम् उत्तरस्य ङेरलुग् भवति। हृदिस्पृक्। दिविस्पृक्।
TBD.
971 हलन्ताददन्ताच्च सप्तम्या अलुक्. कण्ठेकालः. प्राप्तमुदकं यं स प्राप्तोदको ग्रामः. ऊढरथोऽनड्वान्. उपहृतपशू रुद्रः. उद्धृतौदना स्थाली. पीताम्बरो हरिः. वीरपुरुषको ग्रामः. (प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः). प्रपतितपर्णः, प्रपर्णः. (नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः) अविद्यमानपुत्रः, अपुत्रः..
951 हलदन्तात्। त्वचिसार इति। अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः। `वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः' इत्यमरः। अथ हलन्तस्योदाहरणान्तरं वक्ष्यति– युधिष्ठिर इति। अत्र `अजिरशिशिसस्थिरे'त्युणादिसूत्रेण स्थाधातोः किरचि स्थिरशब्दो व्युत्पादितः।
–
TBD.