TBD.
गवियुधिभ्याम् उत्तरस्य स्थिरसकारस्य मूर्धन्यादेशो बवति। गविष्ठिरः। युधिष्ठिरः। गोशब्दादहलन्तादपि एतस्मादेव निपातनात् सप्तम्या अलुग् भवति।
TBD.
–
952 तत्र `आदोशप्रत्यययो'रिति षत्वस्य `सात्पदाद्यो'रिति निषेधे प्राप्ते इदमारभ्यते–गवियुधिभ्यां स्थिरः। गवीसि युधीति च सप्तम्या अनुकरणम्। `स्थिर' इति प्रथमा षष्ठ\उfffद्र्थे। `सहेः साडः सः' इत्यस्मात्स इति षष्ठ\उfffद्न्तमनुवर्तते। `अपदान्तस्य मूर्धन्यः' इत्यधिकृतम्। तदाह–आभ्यामिति। ननु `अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते' इति परिभाषयाऽवादेशात्पूर्वमेव ङेर्लुकि प्रवृत्ते हलन्तत्वाऽभावात्कथमिहाऽलुगित्यत आह–अत्र गवीति। युधिष्ठिर इति। युध्धातोर्भावे क्विपि युध्शब्दात्सप्तम्येकवचनम्। हलन्तत्वादलुक्, षत्वं च। पाण्डवस्य धर्मपुत्रस्य नामेदम्। तदेवं हलन्तादलुकं प्रापञ्च्य अदन्तादलुकमुदाहरति– अरण्येतिलका इति। ननु तिलकशब्दस्य शौण्डादिगणेऽभावात्कथं तेन सप्तमीसमास इत्यत आह- -अत्र संज्ञायामिति। अलुग्वक्तव्य इत्यर्थः। असंज्ञार्थमिदम्। ह्मदिस्पृगिति। `पद्द'न्निति ङौ ह्मदयस्य ह्मदादेशः। ह्मदयं स्पृशतीत्यर्थः। दिविस्पृगिति। दिवं स्पृशतीत्यर्थः। इहोभयत्रापि सप्तम्या अलुग्विधानबलादेव कर्माणि सप्तमीति भाष्यम्। `अमूर्धमस्तका'दित्यनेन त्वलुङ्न सिध्यति, तत्र संज्ञायामित्यनुवृत्तेः।
822 गवियुधि। स्थिरशब्दोऽयम् अजिरशिशिरेत्यौणादिकः किरच्प्रत्ययान्तस्तिष्ठतेर्निष्पन्नः। सात्पदाद्योरिति निषेधे प्राप्ते वचनारम्भः। गवीति वचनादेवेति। न च लुकं बाधित्वापरत्वादन्तरङ्गत्वाच्चाऽवादेशे हलदन्तात्सप्तम्याः इत्येवाऽलुक् सिध्यीति वाच्यम्, अन्तरह्गानपि विधीन् बहिरङ्गो लुग् बाधते इति लुको बलीयस्त्वादिति भावः। दिविस्पृगिति। ह्मदयं दिवं च स्पृशतीति विग्रहः। अलुग्विधिसामत्र्यात्कर्मणि सप्तमी, कर्मणोऽधिकरणत्वविवक्षया वा।
TBD.