Table of Contents

<<6-3-9 —- 6-3-11>>

6-3-10 कारनाम्नि च प्राचां हलादौ

प्रथमावृत्तिः

TBD.

काशिका

प्राचां देशे यत्कारनाम तत्र हलादवुत्तरपदे हलदन्तादुत्तरस्याः सप्तम्याः अलुग् भवति। सूपेशाणः। दृषदिमाषकः। हलेद्विपदिका। हलेत्रिपदिका। कारविशेषस्याः संज्ञा एताः, तत्र पूर्वेण एव सिद्धे नियमार्थम् इदम्। एते च त्रयो नियमविकल्पा अत्रेष्यन्ते, कारनाम्न्येव, प्राचाम् एव, हलादावेव इति। कारनाम्नि इति किम्? अभ्यर्हिते पशुः अभ्यर्हितपशुः। कारादन्यस्या एतद् देयस्य नाम। प्राचाम् इति किम्? यूथे पशुः यूथपशुः। हलादौ इति किम्? अविकटे उरणः अविकटोरणः। हलदन्तादित्येव, नद्यां दोहनी नदीदोहनी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

953 कारनाम्नि। यत्रकारनामेति। राजग्राह्रो भागः करः, स एव कारः, तद्विशेषवाचक इत्यर्थः। नियमार्थमिति। `प्राचां देशे हलादौ यदि भवति कारनाम्न्येव,' `कारनाम्नि हलादौ चेत्प्राचामेव,' `प्राचां कारनाम्नि चेद्धलादावेवे'ति नियमत्रयार्थमित्यर्थः। अविकटोरण इति। अविशब्दासङ्घाते कटच्। उपणो मेषः। नद्यामिति। नद्युत्तारणे तात्कालिको दोहः-करः।

तत्त्वबोधिनी

823 अविकटोरण इति। सङ्घाते कट जिति कटच्प्रत्ययान्तः। उरणो-मेषः।

Satishji's सूत्र-सूचिः

TBD.