Table of Contents

<<6-3-88 —- 6-3-90>>

6-3-89 दृग्दृशवतुषु

प्रथमावृत्तिः

TBD.

काशिका

दृक् दृश वतु इत्येतेषु परतः समानस्य स इत्ययम् आदेशो भवति। सदृक्। सदृशः। त्यदादिषु दृशो ऽनालोचने कञ्च 3-2-60 इत्यत्र समानान्ययोश्चेति वक्तव्यम् इति कञ्क्विनौ प्रत्ययौ क्रियेते। दृक्षे चेति वक्तव्यम्। सदृक्षः। दृशेः क्षप्रत्ययो ऽपि तत्र एव वक्तव्यः। वतुग्रहणम् उत्तरार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1002 दृग्दृषवतुषु। `समानस्य स' इति शेषः। सदृक् सदृश इति। समानो दृश्यते इत्यर्थे `समानाऽन्ययोश्चे'ति दृशेः क्विन्, कञ् च। शेषः। सदृक्ष इति। क्सोऽपि इति दृशेः क्सः। वतुरुत्तरार्थ इति। यत्तदेतेभ्यः परिमाणे वतुपः समानशब्दादसंभवादिति भावः।

तत्त्वबोधिनी

852 सदृक्सदृश इति। `समानान्ययोश्चेति वक्तव्य'मिति दृशेः क्विन्कञौ। दीर्घ इति। अदस आत्वे कृते सवर्णदीर्घ इत्यर्थः। एतच्च पूर्वोत्तरोदाहरणाऽन्वयि।

Satishji's सूत्र-सूचिः

TBD.