Table of Contents

<<6-3-87 —- 6-3-89>>

6-3-88 विभाषा उदरे

प्रथमावृत्तिः

TBD.

काशिका

उदरशब्दे उत्तरपदे यत्प्रत्ययान्ते समानस्य विभाषा स इत्ययम् आदेशो भवति। सोदर्यः, समानोदर्यः। समानोदरे शयित ओ च उदात्तः 4-4-108 इति यत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1001 विभाषोदरे। उदरशब्दे परे समानस्य सभावो वा स्यादित्यर्थः। इत्येवेति। अनुवर्तत एवेत्यर्थः।

तत्त्वबोधिनी

851 विवक्षित इति। उत्तरपदमात्रनिमित्तः समासोऽन्तरङ्गः, समासप्रकृतिकसुबन्तात्तु यत्प्रत्ययः. अतस्तस्य परत्वं न संभवतीत्याशयेनेदमुक्तम्। सोदर्य इति। `समानोदरे शयितः'इत्यर्थे प्रत्ययात्प्राक्समानस्य सभावे कृते `सोदराद्यः'इति यः। सभावाऽभावपक्षे तु `समानोदरे शयित ओ चोदात्तः इथि यति `समानोदर्यः'।

Satishji's सूत्र-सूचिः

TBD.