Table of Contents

<<6-3-89 —- 6-3-91>>

6-3-90 इदं किमोरीश्की

प्रथमावृत्तिः

TBD.

काशिका

इदं किम् इत्येतयोरीश् की इत्येतौ यथासङ्ख्यम् आदेशौ भवतो दृग्दृशवतुषु। ईदृक्। ईदृशः। इयान्। कीदृक्। कीदृशः। कियान्। किमिंदंभ्यां वो घः 5-2-40 इति वतुप्। दृक्षे चेति वक्तव्यम्। ईदृक्षः। कीदृक्षः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1174 दृग्दृशवतुषु इदम ईश् किमः किः. कियान्. इयान्..

बालमनोरमा

1003 इदंकिमोरीश्की। `ईश्' `की'ति द्वे पदे। ईदृक् ईदृश इति। `इदमिव दृश्यते' इत्यर्थे त्यदादिषु दृशेः क्विन्कञौ। ईशः शित्त्वं सर्वादेशत्वाय। वक्ष्यत इति। तद्धितप्रकरणे इयानित्युदाहरणं वक्ष्यत इत्यर्थः। इदंकिमोरीश्की वक्तव्यौ' इति शेषः।आ सर्वनाम्न इति। `आ' इति लुप्तप्रथमाकम्। तादृक् तादृश इति। तदिव दृश्यत इत्यर्थे `त्यदादिषु दृशः' इति क्विन्कञौ। तदो दकारस्य आत्वे सवर्णदीर्घः। तावानिति। तत्परिमाणमस्येति विग्रहे यत्तदेतेभ्य' इतिं वतुप्। तादृक्ष इति। तदिव दृश्यते इति विग्रहः। अमूदृगित्यत्र प्रक्रियां दर्शयति- -दीर्घ इति। अदस आत्त्वे कृते सवर्णदीर्घः। तत ऊत्त्वमत्वे इत्यर्थः। `अः से'रिति व्याख्यानेऽपि अकारेम आकारस्यापि ग्रहणादूत्त्वमत्वे।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.