Table of Contents

<<6-3-86 —- 6-3-88>>

6-3-87 तीर्थे ये

प्रथमावृत्तिः

TBD.

काशिका

तीर्थशब्द उत्तरपदे यत्प्रत्यये परतः समानस्य स इत्ययम् आदेशो भवति। सतीर्थ्यः। समानतीर्थे वासी 4-4-107 इति यत्प्रत्ययः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1000 तीर्थे ये। यशब्दादकारान्तात्सप्तम्येकवचनम्, अकारो न विवक्षितः, प्रत्यय इति विशेष्यमद्याहार्यम्। `यस्मिन् विधि'रिति तदादिविधिः। तदाह–यादौ प्रत्यये इति। नाऽत्रयप्रत्ययान्ते तीर्थशब्दे परे इति व्याख्यातुं शक्यते, `समानतीत्थे वासी'ति समानतीर्थशब्दात्कृतसमासादेव वासीति तद्धितार्थे यप्रत्ययविधानात्। स च यप्रत्ययोऽन्तरङ्गे सभावे कृते एव भवति। `समर्थानां प्रथमाद्वे'ति सूत्रेण परिनिष्ठितादेव तद्धितोत्पत्तेर्वक्ष्यमाणत्वात्कृतेऽपि सभावे एकदेशविकृतन्यायेन भूतपूर्वगत्या वा समानतीर्थशब्दसत्त्वात्। अतो युप्रत्ययपरकत्वं समानशब्दस्य कथमित्यत आह–विवक्षिते इति। सतीथ्र्य इति। समाने तीर्थे वासीत्यर्थः। अत्र सामीप्ये सप्तमी। समानशब्दस्त्वेकपर्यायः। तीर्थशब्दो गुरौ, तदाह–एकगुरुक इति। तद्धितार्थे समासप्रवृत्तयो तद्धितं दर्शयति–समानेति। `निपानागमयोस्तीर्थमृषिजुष्टजले गुरौ' इत्यमरः।

तत्त्वबोधिनी

850 तीर्थे ये। अकारो न विवक्षितः। `प्रत्यये'इति विशेष्यं तु व्याख्यानाल्लभ्यते। तेन `यस्मिन्विधि'रिति तदादिविधिरित्याह—यादौ प्रत्यय इति।

Satishji's सूत्र-सूचिः

TBD.