Table of Contents

<<4-4-107 —- 4-4-109>>

4-4-108 समानौदरे शयित ओ चोदात्तः

प्रथमावृत्तिः

TBD.

काशिका

समानोदरशब्दात् सप्तमीसमर्थात् शयितः इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति, ओकारश्च उदात्तः। शयितः स्थितः इत्यर्थः। समानोदरे शयितः समानोदर्यः भ्राता।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1638 समानोदरे। समानोदरशब्दात्सप्तम्यन्ताच्छयित इत्यर्थे यत्स्यादोकाराश्च उदात्त इत्यर्थः। शयित इत्यस्य विवरणं स्थित इति। कुशेशयं जलेशयमित्यादौ तथा दर्शनादिति भावः। समानोदर्य इति। समानमुदरमिति। विग्रहे `पूर्वापरप्रथमे'त्यादिना समासाद्यति कृते तित्स्वरापवाद ओकारस्योदात्तः। `विभाषोदरे' इति सभावेऽसति रूपम्।

तत्त्वबोधिनी

1263 शयितः स्थित इति। शीधातुः स्थित्यर्थे वर्तते। `जलाशयः' `कुशेशय'मिति प्रयोगादिति भावः। समानमुदरमिति `पूर्वापरप्रथमे'त्यादिना तत्पुरुषःष ततो यत्, तित्स्वरापवाद ओकारस्योदात्तः।

Satishji's सूत्र-सूचिः

TBD.