TBD.
स इति वर्तते। समानस्य स इत्ययम् आदेशो भवति छन्दसि विषये मूर्धन् प्रभृति उदकम् इत्येतानि उत्तरपदानि वर्जयित्वा। अनुभ्राता सगर्भ्यः। अनुसखा सयूथ्यः। यो नः सनुत्यः। समानो गर्भः सगर्भः, तत्र भवः सगर्थ्यः। सगर्भसयूथसनुताद् यत् 4-4-114 इति यत्प्रत्ययः। अमूर्धप्रभृत्युदर्केषु इति किम्? समानमूर्धा। समानप्रभृतयः। समानोदर्काः। समानस्य इति योगविभाग इष्टप्रसिद्ध्यर्थः क्रियते। तेन सपक्षः, साधर्म्यम्, सजातीयः इत्येवम् आदयः सिद्धाः भवन्ति।
TBD.
–
997 समानस्य। नतु मूर्धादिष्विति। मूर्धन्, प्रभृति, उदर्क–एषु परेषु नेत्यर्थः। सगभ्र्य इति। समाने गर्भे भव इत्यर्थः। सयूथ्य इति। समाने यूथे भव इत्यर्थः। सनुत्य इति। समाने नुते भव इत्यर्थः। सर्वत्र `तद्धितार्थ' इति समासे समानस्य सभावः। समानमूर्धेति। समानो मूर्धा यस्येति विग्रहः। समानप्रभऋतय इति। समानः प्रभृतिराद्यवयवो येषामिति विग्रहः। समानोदर्का इति। समान उदर्को येषामिति विग्रहः। तैत्तिरीये `सजूरृतुभिः, सजूर्विधाभिः, सजूर्वसुभिः, सजूरुदैः, सजूरादित्यैः, सजूर्वि\उfffदौर्देवैः, सजूर्देवैः सजूर्देवैर्वयोनाधैरग्नये त्वा वै\उfffदाआनराया\उfffदिआनाध्वर्यु सादयतामिह त्वा' इति मन्त्राः संसृष्टाः पञ्च पठिताः। पञ्चस्वपि मन्त्रेषु सजूरृतुभिः, सजूर्विधाभिरित्ययम् आद्यवयवः, सजूर्देवैर्वयोनाधैरित्यन्तावयवश्च समानः, सजूर्वसुभिरित्यादिपञ्चानामेकैकस्य क्रमेणैकैकस्मिन्मन्त्रे मध्ये निवेश इति याज्ञिकमर्यादा। ननु लोके सपक्षादिशब्देषु कथं समानस्य सभाव इत्यत आह-योगो विभज्यत इति। तथा च `समानस्य सः स्या'दिति वाक्यान्तरं संपद्यते। तत्र छन्दसीत्यभावाल्लोकेऽपि क्वचिद्भवतीति लभ्यत इति भावः। धर्मो यस्य स सधर्मा। समानस्य सभावः। तस्य भावः साधम्र्यम्। ब्राआहृणादित्वात्ष्यञ्। सजातीयमिति। समाना जातिर्यस्येति विग्रहः। समानस्य सभावः। `जात्यान्ताच्छ बन्धुनी'ति च्छः। इत्यादीति। `सग्राम' इत्यादिसङ्ग्रहः। योगविभागस्य भाष्याऽदृष्टत्वाद्युक्त्यन्तरमाह–अथवेति। तेनेति। तेन=सदृशब्देन बहुव्रीहिरित्यन्वयः। तथा च वोपसर्जनस्ये'ति सहस्य सभाव इति भावः। ननु तर्हिं समानः पक्षो यस्येति कथं विग्रहः। सहशब्दस्यैव विग्रहे प्रवेशौचित्यादित्यत आह– अस्वपद इति। वृत्तावेव सहशब्दः सदृशवचन इति भावः।
847 योगो विभज्यत इति। एतदर्थमेव च्छान्दसमपि `समानस्यच्छन्दसी'ति सूत्रमिहोपन्यस्तमिति भावः। बहुब्राईहिरिति। तेन `वोपसर्जनस्ये'ति सहस्य सभावः प्राप्नोतीति भावः।
TBD.