Table of Contents

<<6-3-82 —- 6-3-84>>

6-3-83 प्रकृत्या आशिष्यगोवत्सहलेषु

प्रथमावृत्तिः

TBD.

काशिका

प्रकृत्या सहशब्दो भवति आशिषि विषये अगोवत्सहलेषु। स्वस्ति देवत्ताय सहपुत्राय सहच्छात्राय सहामात्याय। अगोवत्सहलेषु इति किम्? स्वस्ति भवते सहगवे, सगवे। सहवत्साय, सवत्साय। सहहलाय, सहलाय। वोपसर्जनस्य 6-3-82 इति पक्षे भवत्येव सह्बावः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

841 प्रकृत्याशिषि। `सहस्य सः संज्ञाया'मित्यतः सहस्येत्यनुवृत्तं प्रथमया विपरिणम्यते। तदाह–सहशब्द इति। प्रकृत्येति। स्वभावेन स्थितः स्यादित्यर्थः। सभावो नेति यावत्। स्वस्तीति। `भूया'दिति शेषः। सहपुत्रायेति। `तेन सहे'ति समासे कृते, आसीर्योगान्न सभावः। एवं-सहामात्यायेति। \र्\नगोवत्सेति। गोवत्सहलेषु परतः सहस्य प्रकृतिभावो नेत्यर्थः। सगवे इति। `राज्ञे स्वस्ती'ती शेषः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.