Table of Contents

<<6-3-84 —- 6-3-86>>

6-3-85 ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवर्योवचनबन्धुषु

प्रथमावृत्तिः

TBD.

काशिका

ज्योतिस् जनपद रात्रि नाभि नामन् गोत्र रूप स्थान वर्ण वयस् वचन बन्धु इत्येतेषु उत्तरपदेषु समानस्य स इत्ययम् आदेशो भवति। सज्योतिः। सजनपदः। सरात्रिः। सनाभिः। सनामा। सगोत्रः। सरूपः। सस्थानः सवर्णः। सवयाः। सवचनः। सबन्धुः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

–

तत्त्वबोधिनी

848 सज्योतिरिति। समानं ज्योतिरस्येति बहुव्रीहिः। यस्मिन्ज्योतिषि आदित्ये नक्षत्रे वा संजातं तदस्तमयपर्यन्तमनुवर्तमानमाशौचं सज्योतिरित्युच्यते। इह `समानमध्यमध्यमवीराश्चे'ति प्रतिपदेक्त एव समासो न गृह्रते, `सरूपाणामेकशेषः'इति लिङ्गात्। किंतु बहुव्रीहिरपी'ति हरदत्तः।

Satishji's सूत्र-सूचिः

TBD.