Table of Contents

<<6-3-84 —- 6-3-86>>

6-3-85 ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवर्योवचनबन्धुषु

प्रथमावृत्तिः

TBD.

काशिका

ज्योतिस् जनपद रात्रि नाभि नामन् गोत्र रूप स्थान वर्ण वयस् वचन बन्धु इत्येतेषु उत्तरपदेषु समानस्य स इत्ययम् आदेशो भवति। सज्योतिः। सजनपदः। सरात्रिः। सनाभिः। सनामा। सगोत्रः। सरूपः। सस्थानः सवर्णः। सवयाः। सवचनः। सबन्धुः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

848 सज्योतिरिति। समानं ज्योतिरस्येति बहुव्रीहिः। यस्मिन्ज्योतिषि आदित्ये नक्षत्रे वा संजातं तदस्तमयपर्यन्तमनुवर्तमानमाशौचं सज्योतिरित्युच्यते। इह `समानमध्यमध्यमवीराश्चे'ति प्रतिपदेक्त एव समासो न गृह्रते, `सरूपाणामेकशेषः'इति लिङ्गात्। किंतु बहुव्रीहिरपी'ति हरदत्तः।

Satishji's सूत्र-सूचिः

TBD.