Table of Contents

<<6-3-73 —- 6-3-75>>

6-3-74 तस्मान् नुडचि

प्रथमावृत्तिः

TBD.

काशिका

तस्माल् लुप्तनकारान् नञः नुडागमो भवति अजादवुत्तरपदे। अनजः। अनश्वः। तस्मातिति किम्? नञ एव हि स्यात्। पूर्वान्ते हि ङमो ह्रस्वादचि ङ्मुण् नित्यम् 8-3-32 इति प्राप्नोति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

951 लुप्तनकारान्नञ उत्तरपदस्याजादेर्नुडागमः स्यात्. अनश्वः. नैकधेत्यादौ तु नशब्देन सह सुप्सुपेति समासः..

बालमनोरमा

748 तस्मान्नुडचि। तच्छब्देन पूर्वसूत्रावगतो लुप्तनकारो नञ् परामृश्यते। उत्तरपद इत्यनुवृत्तमचीत्यनेन विशेष्यते। तदादिविधिः। `उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् परत्वा'दिति परिभाषया सप्तमी षष्ठी प्रकल्पयति। तदाह–लुप्तनकारादिति। अन\उfffदा इति। समासे सति नञो नकारस्य लोपे तत्परिशिष्टाऽकारस्य नुट्। टकार इत्। उकार उच्चारणार्थः। टित्त्वादाद्यवयव इति भावः। नुक्तु न कृतः, ङमुट्प्रसङ्गात्। ननु `उत्तरे कर्मण्यविघ्नमस्तु' इत्यादौ विघ्नानामभाव इत्यर्थे नञ्तत्पुरुषे सति परवल्लिङ्गत्वेऽविघ्न इति स्यात्। नच अर्थाभावेऽव्ययीभावेन तत्सिद्धिरिति वाच्यम्, अव्ययीभावस्य निरमक्षिकमित्यादौ सावकाशतया परत्वात्तत्पुरुषस्यैव प्रसङ्गादित्यत आह–अर्थाऽभावे इति। रक्षेति। पस्पशाह्निकभाष्ये इदं वाक्यम्। रक्षा च ऊहश्च आगमश्चलघु च असन्देहश्चेति द्वन्द्वः। `परवल्लिङ्ग'मिति पुंस्त्वम्। अत्र सन्देहाऽभाव इत्यर्थेऽसन्देहशब्दस्य असन्देहा इति प्रयोगात्तत्पुरुषो विज्ञायते। अव्ययीभावे `रक्षोहागमलघ्वसन्देह'मिति स्यात्। अद्रुतायामसंहितमिति। `परः सन्निकर्षः संहिते'सूत्रे पठितमिदं वार्तिकम्। अद्रुतायां वृत्तौ स#ंहिताऽभाव इत्यर्थः। अत्र अव्ययीभावे सति असंहितमिति प्रयोगादव्ययीभावेऽपि अर्थाऽभावो नञा गम्यो भवतीति विज्ञायते। अन्यथा तत्पुरुषे सति परवल्लिङ्गत्वादसंहितेति स्यात्। ततश्च नञा गम्येऽभावे तत्पुरुषाऽव्ययीभावयोर्विकल्प इति स्थितम्। तेनेति। अनुपलब्धिरित्यत्र,अविवाद इत्यत्र च तत्पुरुषः, अविघ्नमित्यत्र अव्ययीभावश्च सिध्यतीत्यर्थः। शब्देन्दुशेखरे त्वन्यथा प्रपञ्चितम्। क्षेपे इति। `न लोपो नञः' इति सूत्रस्थवार्तिकमिदम्। नञो नकारस्य लोपः स्यात्तिङि परे निन्दायामिति वक्तव्यमित्यर्थः। अपचसि त्वं जाल्मेति। कुत्सितं पचसीत्यर्थः। अत्र अ इति भिन्नं पदं तिङन्तेन समासाऽभावात्। वार्तिकमिदं प्रसङ्गादुपन्यस्तम्। नञ्समानार्थकेन `अ' इत्यव्ययेनापि सिद्धमिदमिति वार्तिकं विफलमेव। केचित्तु अस्मादेव वार्तिकादव्ययेषु `अ' इत्यस्य पाठोऽप्रामाणिक इत्याहुः। ननु नैकधेत्यत्रापि नञ्समासे `न लोपो नञः' इति नकारस्य लोपे `तस्मान्नुडची'ति नुटि अनेकधेत्येव स्यादित्यत आह–नैकधेत्यादौ त्विति। एतदर्थमेव `न'ञिति सूत्रे, `न लोपो नञः' इति सूत्रे च ञकारानुबन्दग्रहणमिति भावः।

तत्त्वबोधिनी

662 तस्मान्निडाच। `डः सि धुडि'त्यत्रेवाऽचीति सप्तम्याः षष्ठी प्रकल्प्यत इत्याह- -अजादेरिति। अचा उत्तरपदविशेषणात् `यस्मिन्विधि'रिति तदादिविधिर्लभ्यत इति भावः। अन\उfffदा इति। नुटः परादित्वेनाऽपदान्तत्वान्ङमो ह्यस्वादिति ङमुण्न भवति। ननु विन्घानामबावोऽविघ्नामित्यत्रापि परत्वात्तत्पुरुषः स्यात्, अव्ययीभावस्य निर्मक्षिकादौ सावकाशत्वात्। अन्यथा `अनुपलब्धिः'अविवाद' इति न सिद्धयेदित्याशङ्क्याह—अर्थाभावेऽव्ययीभावेन सहेत्यादि। अविघ्नमिति। यद्यप्यविद्यमाना विग्नायस्मिन्निति बहुव्रीहिणा `अविघ्नं कर्मे'त्यादिप्रयोगः सिद्द्यति, तथापि `उत्तरे कर्मण्यविघ्नमस्तु'इत्यादिप्रयोगा अव्ययी भावं विना स्वरसतो न सिद्द्यन्तीति भावः। तिङन्तेन समासाऽभावादप्राप्ते वचनम्। अपचसीति। कुत्सितं पचसीत्यर्थः। नशब्देनेति। नञा समासे त्वनेकधेत्येव स्यादिति भावः।

Satishji's सूत्र-सूचिः

TBD.