Table of Contents

<<6-3-74 —- 6-3-76>>

6-3-75 नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या

प्रथमावृत्तिः

TBD.

काशिका

नभ्राट् नपात् नवेदाः नासत्याः नमुचि नकुल नख नपुंसक नक्षत्र नक्र नाक इत्येतेषु नञ् प्रकृत्या भवति। न भ्राजते इति नभ्राट्। भ्राजतेः क्विबन्तस्य नञ्समासः। नपाति इति नपात्। पातिः शत्रन्तः। नवेत्ति इति नवेदाः। वित्तिरसुन्प्रत्ययान्तः। नासत्याः सत्सु साधवः सत्याः, न सत्याः असत्याः, न असत्याः नासत्याः। न मुञ्चति इति नमुचिः। मुचेरौणादिकः किप्रत्ययः। न अस्य कुलम् अस्ति नकुलः। नख न अस्य खम् अस्ति इति नखम्। नपुंसक न स्त्री न पुमान् नपुंसकम्। स्त्रीपुंसयोः पुंसकभावो निपात्यते। नक्षत्र न क्षरते क्षीयते इति वा नज्ञात्रम्। क्षियः क्षरतेर्वा क्षत्रम् इति निपात्यते। नक्र न क्रामति इति नक्रः। क्रमेर्डप्रत्ययो निपातनात्। नाक न अस्मिनकमस्ति नाकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

749 नभ्राण्नपात्। सुगमम्। अनुवर्तमान इति। `समासविधयो वक्ष्यन्ते' इति शेषः।

तत्त्वबोधिनी

663 नभ्राट्। सत्सु साधवः सत्याः। `तत्र साधुः'इति यत्। न सत्या असत्याः। न असत्या नासत्याः। इह बहुवचनमविवक्षितम्. तेन `नासत्याव\उfffदिआनौ दस्नौ'इति सिद्धम्। नमुचिरिति। `सर्वधातुब्य इन्'। `इगुपधात्किदि'ति कित्त्वान्न गुणः। क्षरतेः क्षीयतेर्वेति। `क्षर सञ्चलने'भ्वादिः। `क्षि निवासगत्योः'तुदादिः।

Satishji's सूत्र-सूचिः

TBD.