Table of Contents

<<6-3-72 —- 6-3-74>>

6-3-73 नलोपो नञः

प्रथमावृत्तिः

TBD.

काशिका

नञो नकारस्य लोपो भवति उत्तरपदे। अब्राह्मणः। अवृषलः। असुरापः। असोमपः। नञो नलोपे ऽवक्षेपे तिङ्युपसङ्ख्यानं कर्तव्यम्। अपचसि त्वं जाल्म। अकरोषि त्वं जाल्म।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

950 नञो नस्य लोप उत्तरपदे. न ब्राह्मणः अब्राह्मणः..

बालमनोरमा

747 न लोपो नञः। नेति लुप्तषष्ठीकं पदं। तदाह–नञो नस्येति। उत्तरपदे इति। `अलुगुत्तरपदे' इत्यतस्तदनुवृत्तेरिति भावः। `नञोऽ'शिति सिद्धे लोपवचनम्- `अकब्राआहृण' इति साकचम्कार्थमित्याहुः। अब्राआहृण इति। अत्रारोपितत्वं नञर्थः। आरोपितत्वं च ब्राआहृणत्वद्वारा ब्राआहृणे अन्वेति। आरोपितब्राआहृणत्ववानिति बोधः। अर्थाद्ब्राआहृणभिन्न इति पर्यवस्यति। केचित्तु नञ् भिन्नवाची, ब्राआहृणाद्भिन्न इत्यर्थ इत्याहुः। तदयुक्तं, ब्राआहृणाद्भिन्न इत्यर्थे पूर्वपदार्थप्राधान्यापत्तेः। तथाच `उत्तरपदार्थप्रधानस्तत्पुरुष' इति भाष्योद्धोषो विरुध्येत। किंच-अते, अतस्मै, अतस्मादित्यादौ सर्वनामकार्यं शीभावस्मायादिकं न स्यात्, तच्छब्दार्थस्य नञर्थं प्रति विशेषणत्वेऽप्रधानत्वात्, `संज्ञोपसर्जनीभूतास्तु न सर्वादयः' इत्युक्तेः। तथा `अस' इत्यादौ `तदोः सः सावनन्त्ययोः' इति सर्वाद्यन्तर्गतत्यदादिकार्यं सत्वं च न स्यात्। `अनेक'मित्यत्र एकवचनानुपपत्तिश्च। एकभिन्नस्य एकत्वाऽसंभवेन द्वित्वबहुत्वनियमेन च द्विबहुवचनापत्तेः तथा सति `अनेकमन्यपदार्थे' इति नोपपद्येत। `एतत्तदोः सुलोपः' इत्यत्र अनञ्समासग्रहणं चात्र लिङ्गम्। तद्धि `असः शिवः', `अनेषः शिव' इत्यादौ सुलोपाऽभावार्थम्। तद्भिन्न एतद्भिन्न इत्यर्थे तु तच्छब्दाद्यर्थस्य उपसर्जनतया त्यदाद्यत्वानापत्तौ हल्ङ्यादिलोपस्य दुर्वारत्वात्तद्वैयथ्र्यं स्पष्टमेव। तस्मादुत्तरपदार्थप्राधान्यं भाष्योक्तमनुसृत्य आरोपितत्वमेव नञर्थ इति युक्तम्। विसत्रस्तु प्रौढमनोरयायां शब्दरत्ने मञ्जूषायां च ज्ञेयः। प्राचीनास्तु `तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता। अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः।' इति पठित्वा-अब्राआहृणः, अपापम् , अन\उfffदाः, अनुदरा कन्या, अपशवो वा अन्ये गोअ\उfffदोभ्यः, अधर्मं इत्युदाजहः। तत्र सादृश्यादिकं प्रकरणादिगम्यमित्याहुः।

तत्त्वबोधिनी

661 नलोपो नञः। `नञोऽशि'ति वक्तव्ये नलोपवचनं साकच्कार्थं, तेन नञोऽकचि `अकब्राआहृणः'`अकनश्च'इत्यादि सिद्धमित्याहुः। उत्तरपदे इति। `अलुगुत्तरपदे'इत्यधिकारादिति भावः। उत्तरपदे किम्?। घटो नास्ति। पटो नास्ति। नन्वेवमपि `स्त्रैणाऽर्थः' इत्यत्र नलोपः स्यादिति चेदत्राहुः– उत्तरपदाक्षिप्तपूर्वपदेन नञं विशेष्य `पूर्वपदभूतस्य नञः'इति व्याख्यानान्न भवति। `स्त्रीपुंसाभ्या'मिति विहितस्य नञ्प्रत्ययस्याऽपूर्वपदत्वात्। अतएव चाऽत्र `प्रत्ययाऽप्रत्ययोः प्रत्ययस्यैव ग्रहण'मिति परुभाषा नोपतिष्ठते। न च प्रत्ययग्रहणे तदन्तग्रहणान्नञप्रत्ययान्तस्य पूर्वपदत्वं संभवत्येवेति `प्रत्ययाप्रत्यययो'रित्येतदुपतिष्ठत एवेति वाच्यं, `ह्मदयस्य ह्मल्लेके'ति सूत्रेऽण्ग्रहणात्पृथग्लेखग्रहणेन `उत्तरपदा धिकारे प्रत्ययग्रहणे तदन्तग्रहणं नास्ती'ति ज्ञापनात्। यद्वा `अमूर्धमस्तकात्'`विभक्तावप्रथमाया'मित्यादिज्ञापकात् `नलोपो नञः' इत्यत्राऽव्ययमेव नञ् गृह्रते, न तु प्रत्यय इति।

Satishji's सूत्र-सूचिः

TBD.