TBD.
इजन्तस्य एकाचः खिदन्ते उत्तरपदे अमागमो भवति, अम्प्रत्ययवच् च द्वितीयैकवचनवच् च स भवति। अम् इति हि द्विरावर्तते। गाम्मन्यः। स्त्रीम्मन्यः, स्त्रियम्मन्यः। श्रियम्मन्यः। भ्रुवम्मन्यः। अम्प्रत्ययवच् च इत्यतिदेशातात्वपूर्वसवर्णगुणेयङुवङादेशा भवन्ति। इचः इति किम्? त्वङमन्यः। एकाचः इति किम्? लेखाभ्रुम्मन्याः। अथेह कथं भवितव्यम्, श्रियम् आत्मानं ब्राह्मणकुलं मन्यते इत्युपक्रम्य श्रिमन्यम् इति भवितव्यम् इति भाष्ये व्यवस्थितम्? तत्र इदं भाष्यकारस्य दर्शनम्, अत्र विषये परित्यक्तस्वलिङ्गः श्रीशब्दो ब्राह्मणकुले वर्तते, यथा प्रष्ठादयः स्त्रियाम्। तत्र स्वमोर् नपुंसकात् 7-1-23 इत्यमो लुग् भवति।
TBD.
–
804 इच एकाचः। एकाच अमिति छेदः। अम् च अम् चेत्येकशेषः। एकं विदेयसमर्पकम्। `इच एकाचो'ऽमिति प्रथमं वाक्यम्। इच इत्येकाच इति च पञ्चमी। `अलुगुत्तरपदे' इत्युत्तरपदाधिकारादाक्षिप्तं पूर्वपदमिचा विशेष्यते। तदन्तविधिः। तदाह– इज्नतादेकाचोऽम्स्यादिति। मुमोऽपवादः। द्वितीयमम्पदं `प्रत्ययव'दित्येकदेशेन प्रत्ययेन समानाधिकरमं संबध्यते। असामत्र्येऽपि वतिप्रत्यय आर्षः। `अम्प्रत्ययव'दिति द्वितीयं वाक्यं संपद्यते। स्वादिप्रत्ययेषु यद्द्वितीयैकवचनं तदेवाऽत्र अमिति विवक्ष्यते, व्याख्यानात्। तदाह– स च स्वाद्यम्वदिति। एतत्सर्वं भाष्ये स्पष्टम्। खिदन्ते पर इति। खिदन्ते उत्तरपदे परत इत्यर्थः। `खित्यनव्ययस्ये'त्यतः खितीत्यनुवर्तते इति भावः। `अम्प्रत्ययव'दित्यतिदेशसय् प्रयोजनमाह– औतोम्शसोरिति। गाम्मन्य इति। गामात्मानं मन्यते इत्यर्थे मनेः खशि श्यन्, सुपो लुक्, गोशप्दादम्, `अम्प्रत्ययव'दित्यस्य प्रयोजनान्तरमाह- - वाऽम्शसोरिति। स्त्रियम्मन्य इति। स्त्रियमात्मानं मन्यते इत्यर्थे मनेः खशि श्यन्। सुपो लुक्। स्त्रीशब्दात् `वाऽम्शसोः' इति इयङ्?विकल्पः। अत्र यकारादकारस्य श्रवणार्थमम्विधिः। मुमि तु अकारो न श्रुयेत। स्?तरीम्मन्य इति। इयङभावपक्षे `अमि पूर्वः'। `अम्प्रत्ययव'दित्यस्य प्रयोजनान्तरमाह– नृ - नरम्मन्य इति। `नृ'इत्यविभक्तिकम्, उदाहरणे नृशब्दस्य समावेशसूचनार्थम्। नरमात्मानं मन्यते इत्यर्थे मनेः खश्, श्यन्, सुपो लुक्, नृशब्दादम्। `अम्प्रत्ययव'दित्यतिदेशात् `ऋतोऽङी'ति गुणः। अत्राऽपि रेफादकारश्रवणार्थोऽम्विदिः। मुमि त्वकारो न श्रूयेत। `अम्प्रत्यव'दित्यस्य प्रोजनान्तरमाह– भुवम्मन्य इति। भुवमात्मानं मन्यते इत्यर्थे मनेः खश्, श्यन्, सुपो लुक्। भूशब्दादम्, `अम्प्रत्ययव'दित्यतिदेशात् `अचि श्नुधातु' इत्युवङ्। अतिदेशाऽभावे तु उवङ् न स्यात्, तस्याऽजादिप्रत्यये विधानात्। श्रिमन्यमिति। मनेः खश्। श्यन्। अत्र मननक्रियां प्रति कुलत्वेन रूपेण कुलं कर्तृ, तस्यैव कुलस्य अध्यारोपतिश्रीत्वेन रूपेण कर्मत्वं चेति स्थितिः। एवं च श्रीशब्दस्य नित्यस्त्रीलिङ्गस्यापि कुले लक्षणया वृत्तेर्नपुंसकत्वम्। यत्र हि प्रातिपदिकस्यैव लक्षणा प्रसिद्धा तत्र पर्वलिङ्गत्यागः। यथा प्रकृते श्रीशब्दः। यत्र तु पदस्य लक्षणा, न तत्र पूर्वलिङ्गत्यागः, यथा `गङ्गायां घोष'इत्यादाविति `पुंयोगादाख्याया'मिति सूत्रे , प्रकृतसूत्रे च भाष्यैयटयोर्मर्यादा स्थिता। एवं च `कालिम्मन्यं कुल'मित्यत्र कालीशब्दस्य न स्त्रीलिङ्गपरित्यागः, प्रयोगानुसारेण तत्र पदलक्षणाया एवाभ्युपगमात्। `श्रिमन्यं कुल'मित्यत्र तु प्रयोगाऽनुसाराच्श्रीशब्दस्य प्रातिपदिकस्यैव लक्षणेति पूर्वलिङ्गपरित्यागान्नपुंसकलिङ्गत्वमेवाश्रीयते। ततश्च श्रीशब्दस्याऽत्र नपुंसकत्वात् `खित्यनव्ययस्ये'ति बहिरङ्गं ह्यस्वं बाधित्वा `ह्यस्वो नपुंसके प्रातिपदिकस्ये'ति ह्यस्व एव न्याय्यः। मुमपवादे `इच एकाचः' इत्यमि कृते तस्य `स्वमोर्नपुंसका'दित लुक्। तथा च `श्रिमन्यं कुल'मिति सिद्धम्। नच गाम्मन्य इत्यादावपि `सुपो धातुप्रातिपदिकयो'रिति लुक् स्यादिति वाच्यम्, `इच एकाचः' इत्यमः `सुपो धातु' इति लुगपवादत्वात्। `स्वमोर्नपुंसका'दिति लुकस्तु नायमम्विधिर्बाधकः, मध्येऽपवादन्यायादिति प्रकृतसूत्रे भाष्यकैयटयोः स्पष्टम्। तदाह- - भाष्यकारेत्यादि। `ह्यस्वो नपुंसके' इत्यनेने'ति शेषः। मुममोरभावश्चेति। मुमपवादस्य अमः `स्वमोर्नपुंसका'दिति लुकि सति तयोः प्रयोगाऽभावः फलतीत्यर्थः।
664 इच एकाचः। अम्?ग्रहणमिहाऽऽवर्तते, तत एकेन अम् विधीयते, परेण प्रत्ययो विशेष्यते। तदाह– स्वाद्यम्वदिति। एवं च `न विभक्तौ तुस्माः' इति निषेधान्मकारस्य नत्संज्ञा, अतएव परश्च भवति। `औतोऽम्?शसो'रित्यत्र शशा साहचर्यात्सुबेवाऽम् गृह्रत इत्युक्तत्वादोत आकारश्च भवतीत्याशयेनोदाहरति– गांमन्य इति। नरंमन्य इति। `ऋतोऽङीत्यादिना गुणः।भाष्यकरोति। अयं भावः– यथा प्रष्ठादयः शब्दाः पुंयोगात्स्त्रीयां वर्तन्ते– प्रष्ठी गणिकेति, तथेह श्रीशब्द परित्यक्तस्वलिङ्गः क्लीबः सन् कुले वर्तते, तत्र `ह्यस्वो नपुंसके' इति ह्यस्वः, मुम् तु न, अपवादेन अमा बाधात्। `स्वमोर्नपुंसका'दित्यमो लुक्। नचैं गामंन्य इत्यादावपि `सुपो धातुप्रातिपदिकयो'रिति लुक् स्यादिति वाच्यम्, `अम्विधिसामथ्र्यादेव तद्बाधादित्याहुः। अम्?प्रत्ययस्तु `मध्येऽपवादा' इति न्यायेन `सुपो धातुप्रातिपदिकयो'रिति लुकमेव बाधते न तु `स्वमोर्नपुंसका'दिति लुकमिति भाष्यादौ स्थितम्। स्यादेतत्–नपुंसकह्यस्वे कृते मुमः प्राप्तिरेव नास्ति, कथमत्रापवादेन अमा बाधादित्युक्तिः सङ्गच्छेत, `अरुर्द्विष'दिति सूत्रे हि अन्तग्रहणस्य समीपवाचित्वेन `खित्यनव्ययस्ये'ति पुनह्र्यस्वो मुमर्थः स्वीक्रियते तथात्रापि भवेदित्यस्त्येव मुमः प्राप्तिरिति।
TBD.