Table of Contents

<<6-3-68 —- 6-3-70>>

6-3-69 वाचंयमपुरन्दरौ च

प्रथमावृत्तिः

TBD.

काशिका

वाचंयम पुरन्दर इत्येतौ निपात्येते। वाचंयम आस्ते। पुरं दारयति इति पुरन्दरः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

770 वाचं यमपुरन्दरौ च। वाक्पुरोरिति। वाच्यं यच्छतीति, पुरं दारयतीति च विग्रहे यमेर्दारेश्च खच्। सुपो लुकि वाच् यम, दार इति स्थिते वाक्पुरोरमन्तत्वं निपात्यते इत्यर्थ-। `अरुर्द्विषजन्तस्य' इति मुमस्तु न प्रसक्तिः।

तत्त्वबोधिनी

640 निपात्यत इति। न चैवं खच् प्रत्ययोऽप्यत्रैव निपात्यतामिति वाच्यं, व्रतादन्यत्रापि प्रसङ्गात्। यदि तु निपातनबलादव व्रतविषयता आश्रीयते,तत्रैव वा व्रतग्रहणं क्रियते,– `वाचंयमो व्रते पुरन्दरश्चे'ति तदा इह `वाचि यमो व्रते' इति सूत्रं, `पूः सर्वयो'रित्यत्र पुरि दारेरित्यंशश्च शक्यमकर्तुम्।

Satishji's सूत्र-सूचिः

TBD.