Table of Contents

<<6-3-57 —- 6-3-59>>

6-3-58 पेषम्वासवाहनधिषु च

प्रथमावृत्तिः

TBD.

काशिका

पेषं वास वाहन धि इत्येतेषु च उत्तरपदेसु उदकस्य उद इत्ययम् आदेशो भवति। उदपेषं पिनष्टि। स्नेहने पिषः 3-4-38 इति णमुल्। वास उदकस्य वासः उदवासः। वाहन उदकस्य वाहनः उदवाहनः। उदकं धीयते ऽस्मिनिति उदधिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

981 पेषंवास। `पेष'मिति णमुलन्तमव्ययम्। तस्मन्वासवाहनधिषु च परत उदकशब्दस्य उदः स्यादित्यर्थः। असंज्ञार्थं वचनम्। उदपेषं पिनष्टीति। उदकेन पिनष्टीत्यर्थः। `स्नेहने पिषः' इति णमुल्। कषादिषु यताविध्यनुप्रयोगः। उदवास इति। उदकस्य वास इति विग्रहः। उदवाहन इति। करणे ल्युट्। उदकस्य वाहक इत्यर्थः। उदधिर्घट इति उदकं `धीयतेऽस्मिन्निति विग्रहः। `कर्मण्यधिकरणे चे'ति किप्रत्ययः। असंज्ञात्वास्फोरणाय `घट' इति विशेष्यम्। समुद्रे त्विति। तत्र उदधिशब्दस्य संज्ञात्वेन `उदकस्योदः' इति पूर्वसूत्रेण सिद्धमित्यर्थः।

तत्त्वबोधिनी

837 उदपेषमिति। `स्नेहने पिषः'इति णमुल्। उदधिरिति। उदकं धीयतेऽस्मिन्निति विग्रहः। `कर्मण्यधिकरणे चे'ति किप्रत्ययः।

Satishji's सूत्र-सूचिः

TBD.