Table of Contents

<<6-3-58 —- 6-3-60>>

6-3-59 एकहलादौ पूरयितव्ये ऽन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

उदकस्योद इति वर्तते। एकः, असहायः तुल्यजातीयेन अनन्तरेण हलादिना, हलादिर् यस्य उत्तरपदस्य तदेकहलादिः, तस्मिन्नेकहलादौ पूरयितव्यवाचिन्यन्यतरस्याम् उदकस्य उद इत्ययम् आदेशो भवति। उदकुम्भः, उदककुम्भः। उदपात्रम्, उदकपात्रम्। एकहलादौ इति किम्? उदकस्थालम्। पूरयितव्ये इति किम्? उदकपर्वतः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

982 एकहलादौ। हस्त्वस्य एकैकवर्मधर्मत्वादेव सिद्धे एकग्रहणादसंयुक्तत्वं लभ्यते। पूरयितव्यं=पूरणार्हं कुम्भादि। असंयुक्तहलादौ पूरयितव्यवाचके उत्तरपदे परे उदकस्य उद इत्यादेशः स्यादित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.