Table of Contents

<<6-3-56 —- 6-3-58>>

6-3-57 उदकस्य उदः संज्ञायाम्

प्रथमावृत्तिः

TBD.

काशिका

उदकशब्दस्य संज्ञायां विषये उद इत्ययम् आदेशो भवति उत्तरपदे परतः। उदमेघो नाम यस्य औदमेधिः पुत्रः। उदवाहो नाम यस्य औदवहिः पुत्रः। संज्ञायाम् इति किम्? उदकगिरिः। सञ्जायाम् उत्तरपदस्य्9अ उ)दकशब्दस्य उदादेशो भवति इति वक्तव्यम्। लोहितोदः। नीलोदः। क्षीरोदः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

980 उदकस्योदः। उदकशब्दस्य `उद' इत्यादेशः स्यादुत्तरपदे संज्ञायामित्यर्थः। उदमेघ इति। उदकपूर्णमेघसादृश्यात्कस्यचिदियं संज्ञा। \र्\नुत्तरपदस्य चेति। उत्तरपदस्य उदकशब्दस्य उदैत्यादेशः स्यात्संज्ञायामित्यर्थः। क्षीरोद इति। क्षीरम् उदकस्थानीयं यस्येति विग्रहः। `क्षीरोदं सरः' इति त्वसाध्वे, असंज्ञात्वात्।

तत्त्वबोधिनी

836 उदमेघ इति। सादृश्यात्पुरुषस्येयं संज्ञा।

Satishji's सूत्र-सूचिः

TBD.