Table of Contents

<<6-3-54 —- 6-3-56>>

6-3-55 ऋचः शे

प्रथमावृत्तिः

TBD.

काशिका

ऋक्षम्बन्धिनः पादशब्दस्य शे परतः पदित्ययम् आदेशो भवति। पच्छो गायत्रीं शंसति। पादं पादं शंसति इति सङ्ख्यैकवचनाच् च वीप्सायाम् 5-4-43 इति शस् प्रत्ययः। ऋचः इति किम्? पादशः कार्षापणं ददाति इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

978 ऋचः शे। शस्य शस्प्रत्ययैकदेशस्यानुकरणात्सप्तमीत्यभिप्रेत्योदारति–पच्छ इति। `सङ्ख्यैकवचनाच्च वीप्साया'मिति पादशब्दाच्छस्। तद्दितश्चासर्वविभक्ति'रित्यव्ययत्वम्, नत्विह लोमादिशस्य ग्रहणं, लोमादौ पादशब्दस्य पाठाऽभावात्। पादशः कार्षापणं ददातीति। कार्षापणाख्यापरिमाणविशेषं सुवरह्णादिकं पादं पदां ददातीत्यर्थः।

तत्त्वबोधिनी

834 ऋचः शे। `शे' इति शस्प्रत्ययस्येदमनुकरणम्, लोमादिषु पादशब्दस्. पाठाऽभावान्मत्वर्थे शो न संभवतीति भावः।

Satishji's सूत्र-सूचिः

TBD.